________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
जयाख्यसंहिता
[प. १० [शङ्खमन्त्रसाधनप्रकारः] स्वाभिनद्धा (धाना ?) द्यवर्णस्य वधस्थौ योजयेवलौ । विग्रहं सकलीकृत्य हृद्यागे तु कृते सति ॥ ४१ ॥ बाह्ये शङ्खोदरं पचं षट्पत्रं मण्डलस्थितम् । कृत्वा तत्रायेन्मन्त्रं होमं कृत्वा तु नारद ॥ ४२ ॥ निर्झराम्बुयुतं स्थान प्रयायाद्विजनं द्विज । लक्षाष्टकं जपेन्मन्त्री अयुतं त्रितयोत्तरम् ॥ ४३ ।। जुहुयात्कुसुदानां तु लक्षषद्कं समाहितः । होमान्ते मन्त्रराट् सम्यक् सिध्यत्यस्य महामते ॥ ४४ ॥ दूराच्छ्रवणविज्ञानं तत्पभावात्मवर्तते । सर्वभूतरुतं चैव ध्यानजप्यपरो लभेत् ॥ ४५ ॥ प्रभावान्मन्त्रनाथस्य शब्दांश्वाकर्णयेद्भहून् । देवगन्धर्वलोकोत्थान् श्रोत्रेन्द्रियमनोहरान् ।। ४६ ॥ प्रयुक्तः पूर्वविधिना मन्त्रोऽयं यत्र कुत्रचित् । स साधयति तच्छीघ्रं विघ्नेशेन महामते ॥ ४७ ॥ तुषारक्षीरललितां (ते ?) सुधया चन्दनेन च । रक्तवस्त्रेऽथवा भूर्जे मन्त्र यो धारयत्यपि ॥ ४८ ॥ तस्योपचयसामग्री सम्मुखत्वं प्रयाति च । विधानमेतच्छङ्खस्य प्रोक्तं चक्रस्य कथ्यते ॥ ४९ ॥
[चक्रमन्त्रसाधनप्रकारः] कृत्वोर्चे मरणानां च संज्ञा पाक् क्षयं तु यत्र(?) । कुयोत्परिकराव्यं च चक्राङ्गगणसिद्धये ॥ ५० ॥ न्यस्य पाणौ तथा देहे हृत्पद्मे पूजयेत्ततः। द्विष द्वारं लिखेच्चक्रं नाभिनेमिसमन्वितम् ॥ ५१ ।। तदन्तरे तु षट्पत्रं कमलं रक्तपांडुरम् । चक्रं राजोपलाभेन सितधारं ज्वलत्पभम् ॥५२॥ तन्मध्ये चक्रमन्त्रं तु संपूज्य जुहुयात्ततः।
दत्वा पूर्णाहुतिं चैव समाक्रम्य वनस्थलीम् ॥ ५३॥ I कृत्वोधेमकृत्वोधैमरणानां च संज्ञया । प्रागक्षयं तु यत् ... ... ... ... A
For Private and Personal Use Only