________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३१
जयाख्यसंहिता
[प. २९ आरूढं सोमबीजं च चतुर्णामासने न्यसेत् । विष्णुनाऽलंकृतास्सर्वे ततः स्वहृदयान्मुने ॥ ११५ ॥ सर्वस्मिन्मन्त्रचक्रे तु चान्द्री व्यापी तु मूर्धनि । न्यासं पुरोदितं कृत्वा इष्वा हृदयगोचरे ॥ ११६ ॥ अष्टास्रं तु पुरं कृत्वा द्वाराघवयवान्वितम् । तन्मध्ये कमलं शुक्लमष्टपमं सकर्णिकम् ॥ ११७ ॥ तत्रावतार्य मन्त्रेशं पूजयेद्भक्तिपूर्वकम् ।। पूर्ववढ्दयादीनि ततोऽनुगचतुष्टयम् ॥ ११८ ॥ ध्यात्वा पद्मदलान्तस्थं न्यसेद्ध्यानं निबोध मे ।
[वराहानुचरध्यानप्रकारः] अतसीपुष्पसंकाशं प्रथमं धरणीधरम् ॥ ११९ ॥ धराधरं द्वितीयं तु नवमेघसमप्रभम् । प्रियङ्गमञ्चरीश्यामं तृतीयं पृथिवीधरम् ।। १२० ॥ चतुर्थ विश्वनाम ध्यायेदलिकुलद्युतिम् । वराहवदनाः सर्वे शंखपद्मकरोद्यताः ।। १२१॥ बद्धपद्मासनासीना वरदाभयकास्तु वै । पुष्पाभरणदिग्धाङ्गास्तुषारनिकरान्विताः ॥ १२२ ।।
[ वराहशक्तिध्यानप्रकारः ] ततः शक्तिचतुष्कं तु ध्यात्वा ध्यात्वा निवेशयेत् । नवचम्पकवर्णाभां प्रथमां विश्वपूरकीम् ॥ १२३ ।। राजोपळप्रभामन्यां विश्वसन्धारणीति या । ध्यायेद्वन्धुकपुष्पाभामोजाख्यां तु महाबलाम् ॥ १२४ ॥ चतुर्थी स्थितिसंज्ञां च तुहिनाचलसनिभाम् । वराहवदनास्सर्वे द्विभुजाश्चारुकुण्डलाः ॥ १२५ ॥ गदाचक्रकराश्चैव नानापुष्पाम्बरान्विताः। पूजयित्वा ततो दद्यान्मुद्रां मश्रगणस्य च ॥ १२६ ॥ मूलस्य हृदयादीनां पूर्वलक्षणलक्षिताम् । वराभयाख्यां मूर्तीनां गदामुद्राङ्गनासु च ॥ १२७ ॥ ततस्तु जुहुयान्मन्त्री मध्वक्तानसितांस्तिलान् । दत्वा पूणोहुतिं कृत्वा वाराई रूपमात्मनः ॥ १२८॥
For Private and Personal Use Only