________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९]
वक्रमन्त्रसाधनम्
३३५
जाम्बूनदपुटे कृत्वा धारयेद्भक्तिमान्हि यः । तस्य ज्ञानं सविज्ञानमाविर्भवति नारद ॥ १०३ ॥ नदीः सन्तरतस्तस्य अथवोदधिलखाने । तोयोत्था दोषसंघाश्च ऊर्मयः प्रशमन्ति च ॥ १०४ ॥ यन्त्रसंधारको यत्र निवसत्यम्बुजन्म च । ज्वलितं 'वाचकं तत्र गमयत्यचिरेण तु (?) ॥ १०५ ॥ कृत्वा स्थानं तु निर्वाध मन्त्रस्यास्य प्रभावतः । पविशन्ति च घोराणि भौमायानि सहस्रशः ॥ १०६ ॥ न तत्र दैविको बाधः कुतो राजकुलोद्यतः। उदेति पूर्णमतुलं धैर्य लक्ष्मीः प्रगल्भता ॥ १०७ ॥ विपरीतमतो यद्वै तत्सर्व नाशमेति च । किमस्य मन्त्रनाथस्य अप्राप्यं भुवनत्रयम् ॥ १०८ ॥ स्यात्समाराधितस्यैवं विधिदृष्टेन कर्मणा । यत्र यत्र च मन्त्रेशं यं यं मन्त्री नियोजयेत् ॥ १०९ ॥ तत्राङ्गशक्तिमूर्ति चाप्यर्चयेज्जुहुयाजपेत् । इत्येतत्कापिलस्योक्तं वाराहस्याधुनोच्यते ॥ ११० ॥
[ वराहमन्त्रसाधनप्रकारः तत्र वराहस्याङ्गमन्त्रः ] षोढाऽनन्तेशमादाय प्रधानोपरि संस्थितम् । घरेशं तदधो दद्यात्संयोज्याङ्गोदितस्वरैः ॥ १११ ।।
1 [वराहस्यानुचरमन्त्राः ] गोविन्दो विबुधाद्यश्च वराहश्च चतुर्गतिः । क्रमाचतुष्टयं दद्यात्तेषां चाधो नियोज्य च ॥ ११२ ॥ घरेशश्च गदध्वंसी सूक्ष्मं वरुणमेव च । तर्ध्वमनलं पश्चाचतुर्णा क्रमशो न्यसेत् ॥ ११३ ॥
[वराहस्य शक्तिमन्त्राः ] अथ शक्तिचतुष्कार्थमादायार्णचतुष्टयम् ।
ध्रुवो वराहस्त्वनलः परमात्मा महामतेः ॥ ११४ ॥ 1 पातकं A
For Private and Personal Use Only