________________
Shri Mahavir Jain Aradhana Kendra
३१४
I सङ्घ
www.kobatirth.org
जयाख्यसंहिता
साष्टं शतद्वयं जहा सर्वपान्करसंपुटे ॥ ८८ ॥ निक्षिपेद्भूमिमध्ये तु ते स्वयं संघटन्त्यधः । निधिस्थाने तु विप्रेन्द्र स्थाने रासायने तु वा ॥ ८९ ॥ तत्प्राणि (प्ति ?) सूचनार्थं तु तत्रावर्त ददत्यथ । प्राप्तिर्न विद्यते यस्मिन्निधावथ रसायने ॥ ९० ॥ दूरतश्च तदुद्देशात्मयान्तीतस्ततो द्विज । बद्धपद्मासनो मन्त्री शून्यधारणया स्थितः ।। ९१ ॥ जपेद्दशसहस्राणि खेचरत्वमवाप्नुयात् । राजोपलद्युतिमुषं ध्यात्वा मन्त्रं जपेद्यदि ।। ९२ ॥ तुर्याशमयुतं तालुरन्ध्रपथस्थितम् । स्वयमन्यस्य वा विम पलितं नाशयेद्यतः ॥ ९३ ॥ पुरन्दरपुरान्तस्थं मन्त्रं मन्त्री जपेद्यदि । ज्वलनाभं तु जिह्वाग्रे रक्षावानीश्वरस्य तु ॥ ९४ ॥ सोsपि मूकत्वमाप्रोति किं पुनर्मनुजोऽल्पधीः । निशाम्बुना च क्षीरेण सघनेन रसेन च ॥ ९५ ॥ विलिख्य कुङ्कुमाढ्येन भूर्जे वा सितकर्पटे । षट्पत्रं तु महापद्मं तद्बहिर्द्वादशच्छदम् ॥ ९६ ।। सनाभिनेमि तद्वा षोडशारश्च हेतिराद । प्राग्वनामसमायुक्तं मन्त्रेशं कर्णिकान्तरे ॥ ९७ ॥ पत्रषट्के षडङ्गं तु नामाक्षरपदान्वितम् । अङ्गानि मूर्तयश्चैव शक्तयोऽथ दलत्रये ॥ ९८ ॥ तान्येवान्येषु पत्रेषु भूयो भूयो विलिख्य च । पद्मं समाप्यते यावन्नाभौ मूलं न्यसेत्पुनः ।। ९९ । अरान्तराल हृद्बीजमस्त्रबीजमरेषु च । शेषमङ्गचतुष्कं तु मूर्तयश्शक्तयस्तथा ॥ १०० ॥ चक्र तु विन्यस्य चक्रबाह्यं तु वै ततः । नवधा शक्तिबीजेन वेष्टनीयं महामते ।। १०१ ॥ आश्रमावरुणासङ्घ शान्तिमन्त्रान्विनिक्षिपेत् (?) । अथवाऽनेन तु व्योम्नि तत्र सूत्रेण वेष्टयेत् ॥ १०२ ।।
********
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ १.२९