________________
Shri Mahavir Jain Aradhana Kendra
प. २९ ]
www.kobatirth.org
1 लिङ्गविग्रहम् A
જર
Acharya Shri Kailassagarsuri Gyanmandir
वक्रमन्त्रसाधनम्
न्यसेद्धृदादिकं प्राग्वत्पत्रप्रान्तचतुष्टये । प्रागाद्ये मूर्तिसंघं तु आने याम्येऽथ शक्तयः ।। २० ।। इष्ट्वाऽथ मूर्तिमन्त्राणां स्वमुद्रां संमदर्शयेत् । चक्रं कीर्तिचतुष्कस्य गुग्गुलं च तिलं ततः ।। २१ ॥ हृतकिशारुकाणां तु धान्यानामरुणात्मनाम् । तणदोषविमुक्तानामाज्याक्तानां विशेषतः ॥ २२ ॥ गुग्गुलुक्षौद्रमिश्राणां दद्यात्पूर्णाहुतिं ततः । प्रमुञ्चन्वै महानादं त्रैलोक्यजडकृन्महत् ॥ २३ ॥ नृकेसरी समायाति गगनादनलान्तरात् । तन्मन्त्रेण महानादमुत्प्लुत्य गगनं द्रुतम् ।। २४ ।। कुर्यात्साधकमुख्य वै तेजसा मुदितो भवेत् । तदा स भगवान्देवः परितुष्टोऽनुभाषते ॥ २५ ॥ वद साधक राजेन्द्र यत्ते चेतस्यवस्थितम् । इत्युक्त्वाऽदर्शनं याति मन्त्रमूर्तीनृकेसरी ॥ २६ ॥ [ नृसिंहमन्त्रसिद्धि सामर्थ्यम् ] ततोऽष्टगुणमैश्वर्य साधको यदि चेच्छति । आत्मनो द्विज वाऽन्यस्य वाङ्मात्रेण तु साधयेत् ॥ २७ ॥ दृष्ट्वा सुलक्षणं पात्रं ब्राह्मणं क्षत्रियं तु वा । कृत्वा तु चेतसा न्यासं पुष्पैरध्यैस्तथाऽम्बुना ॥ २८ ॥ संपूज्य रङ्गमध्यस्थमाविष्टस्स वदेत्क्षणात् । भूतं भव्यं भविष्यच्च यस्य यत्प्रतिभाति वै ।। २९ ॥ न्यस्य तन्मूर्तिमन्त्रांश्च तन्मन्त्रैरथ पूजयेत । दारकं सोऽपि चेत्सर्वमतीतानागतं वदेत् ॥ ३० ॥ शक्तिमन्त्रचतुष्केण समावेश्य च कन्यकाम् । स्वल्पाऽपि बालभावस्था सा विवक्ति यथेप्सितम् ॥ ३१ ॥ जयमानस्तु मन्त्रेशं तन्मत्रेणाथ संक्षिपेत् । सिद्धार्थकान्विशेद्रामान्नगरं वा पुरं महत् ॥ ३२ ॥ तत्क्षणात्क्षोभमायाति सतिर्यङ्नरदैवतम् । कृत्वातः सिंहविग्रहम् ।। ३३ ॥
For Private and Personal Use Only
३२९