________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
जयाख्यसंहिता
[प. २९
अथ लोकेश्वरार्ण तु सूक्ष्मान्तस्थं यदक्षरम् । लोकेश्वरोज्झितं तं वै व्योमेशाख्याद(?)संयुतम् ॥ ७ ॥ चतुर्णामपि मूर्धस्थं चतस्रो मूर्तयो विभोः । सूर्यलोकप्रदश्चाद्यो द्वितीयोऽग्निप्रभाकरः ॥ ८ ॥ अत्युग्रदर्पशमनश्चतुर्थो विश्वसूकरः।
[नृसिंहानुचरमूर्तीनां ध्यानप्रकारः ] नृसिलभूतयः(मूर्तयः?) सर्वे ध्येयास्सर्वे चतुर्भुजाः ॥९॥ नखाहरणाश्चैव विश्वोपप्लवहानिदाः । विस्मयाख्यां स्मरेन्मुद्रां सर्वेषां च करद्वये ॥१०॥ करेण तु करं ध्यायेन्मर्दयन्तमतीव हि । अतश्चोद्रिक्तरूपाणां ध्येया मुद्रा परा मुने ॥ ११ ॥ सितरक्तसुवर्णाभं नीलपूर्वाकृतिं स्मरेत् ।
[नसिंहस्य शक्तिमन्त्राः ] आदायोत्फुल्ल (य फुल्ल ?) नयनमग्निरूपमतः परम् ॥ १२ ॥ दीप्तिमद्विश्वरूपौ च तेषां मूर्धनि विन्यसेत् । अशेषभुवनाधारं मायाव्योमेशभूषितम् ॥ १३ ॥ मायाव्योमेशरहितं तत्तेषामासनं न्यसेत् । युगान्तहुतभुग्ज्वाला विश्वमूर्तिमहाप्रभा ॥ १४ ॥ जगत्संपूरणी नाम्ना चतुर्थी संमकीर्तिता ।
. [ नृसिंहशक्तीनां ध्यानप्रकारः ] क्रमेण वर्णमासां तु यथास्वमवधारय ।। १५ ॥ अलिहेमारुणा...द्विभुजाश्चारुकुण्डलाः । उन्नताङ्गा महाकायाः पिङ्गभ्रूयुग्मलोचनाः ॥ १६ ॥ चतस्रश्चापि षड्घ्राणाः प्रलम्बिजठरास्तथा । चक्रचामरहस्ताश्च बद्धपद्मासनस्थिताः ॥ १७ ॥ सर्वासां प्रणवं संज्ञां नमस्कारपदं न्यसेत् । मूलशक्तिमणीतेन न्यायेन न्यासमाचरेत् ॥ १८॥ अचेयित्वा तु हृत्पधे षट्कोणे मण्डले बहिः । अष्टपत्रोदरे न्यस्य पूजयेत्परमेश्वरम् ॥ १९ ॥ 1 वीर्याणां A
For Private and Personal Use Only