________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८-२९)
वक्रमन्त्रसाधनम् बहुधा भेदमायाति एवमन्ये नगादयः । मामण्डलस्थितं ध्यायेदस्त्रज्वालावलीकृतम् ॥ १५३ ॥ यत्र यत्र नियुक्तं तु स्तंभं तत्र करोति च । अस्त्राभिमन्त्रितं कृत्वा लोहकाण्ड तु नारद ।। १५४ ॥ भ्रामयन्गगनस्थं च स्तंभयेदभिवर्षणम् । यत्र यत्र नियुंजीयात्क्रोधसंरक्तलोचनः ॥ १५५ ।। अस्त्रजप्तं तृणाग्रं तु बकवत्तत्र तत्पतेत् । मन:शिलायुतेनैव कुमेन विलिख्य च ॥ १५६ ॥ कार्णिकादौ स्थितं प्राग्वद्दिक्षु वज्राष्टकान्वितम् । धारयेद्यस्तु युक्तात्मा सर्वत्राप्यपराजितः ।। १५७ ॥
पूजामाप्नोति विपुलां सौभाग्यं चाखिलं तथा । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अंगमन्त्रसाधनं नामाष्टाविंशः पटलः अथ वक्रमन्त्रसाधनं नामैकोनत्रिंशः पटलः ।
श्रीभगवान्एतद्विधानमङ्गानां कीर्तितं तु यथेप्सितम् । शृणु वक्रत्रयस्याथ कल्पं वक्ष्यामि यादृशम् ॥.१ ।।
[नसिंहवक्रमन्त्रसाधनम् ] यत्तनृसिंहवदनं कल्पान्तार्कायुतपभम् । तस्याङ्गषट्कसंयुक्तं शृणु मूर्तिचतुष्टयम् ॥ २॥ युक्तं शक्तिचतुष्केण कल्पान्तानिसमद्युति ।
[नृसिंहस्याङ्गमन्त्राः ] आदाय शाश्वतं षोढा सामपाठकसंस्थितम् ॥ ३॥ चतुर्गतिधरेशाभ्यामन्तस्स्थेनाथ योजयेत् । उत्तराधरतः पवादाङ्गिकैश्चाङ्कयेत्स्वरैः ॥ ४ ॥ कौस्तुभोत्तममध्येन व्योमेशेनाथ भूषयेत् ।। अङ्गान्येतानि विप्रेन्द्र नृसिमस्य महात्मनः ॥ ५ ।।
[ नृसिंहस्य मूर्तिमन्त्राः ] कूटान्तश्चैव धा मात्मा(?)शाश्वतावस्थितस्ततः । वेदात्मा परमात्मा च चतुर्णामथ योजयेत् ॥६॥
For Private and Personal Use Only