________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८]
अङ्गमन्त्रसाधनम्
३२१
शतैकसंख्यया तिष्ठेजपन्मन्त्रं तु नारद । प्रदान्ते च चोराणां बीजानि करकानि च ॥ ६८ ॥ धारयेत्पूर्वविधिना भूर्जे वा सितकपटे । ददात्यभीष्टं भक्तानां निर्विनेन तु नारद ।। ६९ ॥ एतच्छिखाख्यमन्त्रस्य संविधानं मयोदितम् ।
[कवचमन्त्रसाधनप्रकारः ] कवचस्याधुना विष किंचिदुद्देशतः शृणु ॥ ७० ॥ न्यस्य चेष्टा च हृदये मण्डलं च ततो लिखेत् । तन्मध्ये पंकजं कुर्यात्पीतकृष्णोज्वलेन तु ॥ ७१ ॥ तन्मिश्रितेन रजसा तन्मध्ये चावतार्य वै। प्रपूज्य पूर्वविधिना कुण्डस्थमथ तर्पयेत् ॥ ७२ ॥ सितकृष्णैस्तथा ताम्रस्तिलैर्मध्वाज्यभावितैः । दत्वा पूर्णाहुतिं कृत्वा रूपं कवचसंज्ञितम् ॥ ७३ ॥ मयायाद्भगृहं विप्र गुहां वाऽप्यथ पार्वतीम् । तत्र लक्षद्वयं जत्वा होमं तदनु चाचरेत् ।। ७४ ॥ द्रव्यैः पूर्वोदितैः सर्वैः कृष्णागरुविभावितैः । जपार्धसंख्यामानेन ततः पूर्णाहुतिं चरेत् ॥ ७५ ।। आज्येन मधुमिश्रेण तदन्ते मन्त्रनायकम् । दशदिक्षु स्थितं पश्येत्साधकस्येदमाह च ॥ ७६ ।। गच्छ सिद्धोऽसि ते कर्माण्यभीष्टानि प्रसादय । तदाज्ञा शिरसा कृत्वा साधयेन्मनसेप्सितान् ॥ ७७ ॥
[ मन्त्रसिद्धिजं सामर्थ्यम् ] गत्वा वन(न?) पुरान्तं तु वामपाणिस्थितं जपेत् । सितं सिद्धार्थकं चैव पहरार्धमुदङ्मुखः ॥ ७८ ॥ निक्षिपेद्वनभूमौ तु तदधो विदिक्ष्वपि । ततो हि ताः (ऽभितः ?) समायान्ति तदने वनदेवताः ॥ ७९ ॥ ममाज्ञां देहि मन्त्रज्ञ किमर्थं तापिताऽस्मि वै । अभीष्टान्याहरस्वेमान्यौषधानि सहस्रशः ।। ८० ॥ समस्तकर्मसिद्ध्यर्थ क्षुजराविनिवृत्तये ।
For Private and Personal Use Only