________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
जयाख्यसंहिता
[प. २८ अथौषधानि दिव्यानि सर्वकर्मफराणि च ।। ८१ ॥. गृहीत्वा च वनोद्देशात्मयायात्साधकेश्वरः । आदाय कदलीपत्रं तमालच्छदमेव वा ।। ८२ ॥ विततं भूर्जपत्रं वा मन्त्रेशं तत्र संलिखेत । तत्तनुत्रत्वमायाति वेष्टितं च यदा यदा ॥ ८३ ॥ शत्रुशस्त्रविनाशार्थमग्निज्वालापनुत्तये । धर्माशुतापशान्त्यर्थं शीतानां नाशनाय च ॥ ८४ ॥ लोष्ठकण्टकशीकर्यः स्थूलत्वमुपयान्ति च । यदि दत्वा च तं भूमौ स्वपेदुपविशेश्च वा ॥ ८५ ॥ दृष्ट्वा ग्रस्थं चौरसैन्यं समुद्यतवरायुधम् । भीमं मृगारिं सिंहं वा हालाहलगणं महत् ।। ८६ ॥ मदोद्धतं करीन्द्रं वा आरण्यमहिषादिकम् । नदीनदान्तरस्थं वा माणिग्राहादिकं महत् ॥ ८७ ॥ हन्तुकामं च साधूनां सदामिपजिघृक्षया । दण्डाग्रस्थं तु तत्पत्रं कृत्वा दक्षिणपाणिना ॥ ८८॥ साधोग्रस्थं (स्था?) भ्रामयेत्तु तत्समुत्थेन वायुना । कल्पान्तसदृशेनाशु यान्ति सर्वे इतस्ततः ।। ८९ ॥ अथवा साधकेन्द्रेऽसौ चेतसा चानु सन्धयेत् । गुप्ति प्राकारतुल्येन कवचेनानलात्मना ॥ ९० ॥ चक्षुर्वन्धश्च दुष्टानां तत्क्षणा [ दुपजायते ] । तन्मन्त्रेण तु नमस्य नत्वा दद्याटिच्छदम् ।। ९१ ॥ शीतकाले निदाघे वा अम्बरन्वं प्रयाति सः। समुत्थिते महामेघे ग्रामे वा विपयेऽखिले ॥ ९२ ॥ स्मरेत शस्त्र ......... तत्पत्रं दण्डपृष्ठगम्। शतधा साशनियोति तानुत्रेण तु तेजसा ॥ ९३ ॥ बध्वा तनुत्रमन्त्रं च लिखितं पीतकर्पटे । क्षीरेण कुङ्कुमेनैव ...... मिश्रितेन तु ॥ ९४ ॥ कर्णिकामध्यगं मन्त्रं द्विधा संज्ञा तदन्तगा(?) । युक्तं कर्मपदेनैव पत्रे पत्रे तु पन्त्रपम् ॥९५॥
For Private and Personal Use Only