________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २७ वीरस्थानं समासाथ निश्शको जनवर्जितम् ॥ ११२ ॥ वर्मणाऽस्त्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम् । मारभेत जपं पश्चात् पयोऽन्नफलभुक्सदा ॥ ११३॥ युक्तोऽन्तरसहायेन मौनी ध्यानपरायणः । मणिपत्य हरि मूनों माक् स्वमन्त्रेण नारद ॥ ११४॥ जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत् । समित्मादेशमात्रा तु रक्तचन्दनसंभवा ॥ ११५॥ तासामयुतहोमस्तु घृताक्तानां तु होमयेत् । सिद्धार्थकायुते द्वे च मधुमिश्रा महामुने ।। ११६ ॥ अयुतत्रितयं चाथ जुहुयादसितैस्तिलैः । मधुत्रितयसंपृक्तैरन्ते पूर्णाहुतित्रयम् ॥११७ ॥ मधुक्षीरघृतैर्विम क्रमेण परिहोमयेत् । ततो भगवती विम समायाति जया स्वयम् ॥ ११८॥
[जयायाः प्रसादः ] मुसिद्धाऽस्मि च ते पुत्र मन्मन्त्रेण समाचर । यदभीष्टं तु वै कार्य निश्शङ्को विगतज्वरः ॥ ११९ ॥ उक्त्वेत्यदर्शनं याति देवी नारायणात्मिका ।
[जयामन्त्रसिद्धिजन्यं सामर्थ्यम् ] ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ॥ १२० ॥ लोकेऽस्मिन्यान्यभीष्टानि आत्मनश्च परस्य वा । तत्राप्युदेशतो वक्ष्ये शृणु तत्त्वेन नारद ।। १२१ ॥ ज्वालाभद्रासनां ध्यायेद्देवीमन्त्रेण साधकः । उदाहयति वै यस्य यस्मिन्यस्मिंस्तु वस्तुनि ।। १२२ ।। निर्जित्य न्यायतस्तं वै जयमामोत्ययत्नतः । गजाश्वशस्त्रभृत्पूर्ण परसैन्यं बलान्वितम् ॥ १२३ ॥ दृष्वाऽन्यस्य समायातं हन्तुमभ्युधतं रणे । परिजप्य धनुः खङ्गं खेटकं बाणपञ्चकम् ॥ १२४ ॥ प्रेरयेद्यस्य वै दत्वा स गत्वा च चमूमुखम् । विदारयति चैकाकी जयमाप्नोति शाश्वतम् ॥ १२५ ॥ 1वन Y CL. महाबलम् A
For Private and Personal Use Only