________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७]
शक्तिमन्त्रसाधनम्
३०७
[जयाया अनुचरमन्त्रः] आरूढः पद्मनाभस्तु शाश्वतः केवलो द्विज ॥ १००॥ प्रधानं च तथोहामं क्रमेणैतानि योजयेत् । येषामुपरि वैनेयश्चान्द्री व्योमसमन्वितः ॥ १०१॥ प्रतापी जयभद्रश्च तृतीयस्तु महाबलः । उत्साहाख्यश्चतुर्थस्तु कृत्वा न्यासं तु पूर्ववत् ॥ १०२॥ 'इष्ट्वा भुवननाथं तु पूजयेच ततो बहिः।
[मण्डलादिविधानम् ] मण्डलं पूर्ववत्कृत्वा तन्मध्ये पङ्कजं लिखेत् ॥ १०३ ॥ नीलोत्पलाभातुल्येन रजसा च स ( चाष्ट! ) पत्रकम् । तत्रोत्सङ्गगतां विष्णोर्हृदयाघोजयेज्जयाम् ॥ १०४॥ शेषमन्त्रगणन्यासान्पूर्वपूर्वक्रमेण तु । कर्तुः (कुर्यात् ?) ध्यानं च सर्वेषां समासादवधारय ॥१०५॥
[ जयायाः सखीनामनुचराणां च ध्यानप्रकारः] हृदादीनां पुरा प्रोक्तं मूलमन्त्रप्रसङ्गतः। नीलनीरजवर्णाश्च प्रसन्नवदनेक्षणाः ॥ १० ॥ पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः। सितचामरहस्ताश्च चित्रपत्रफलोधताः॥१०७॥ निरीक्षमाणा वदनं जयाया अजितस्य च । कुन्दकुमलवर्णाभाः प्रसन्नमुखपङ्कजाः ॥१०८ ॥ रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः । धनुर्वाणकराश्चैव गदाचक्रधरा द्विज ॥ १०९ ॥ चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः। पूजयेच ततो भक्त्या होमं कुर्यादनन्तरम् ॥ ११० ॥
[ होमादिविधिः ] तिलैः सिद्धार्थकोपेतैः हविषा गुग्गुलेन च । होमावसाने विप्रेन्द्र कृत्वा रूपं जयात्मकम् ॥१११ ॥
जयाऽहमिति वै बुद्धा चेतसोपस्थितं महत् । 1 वननाभस्तुमध्ये तु C L, Y. ' इष्ट्वा हृदन्तरे पूर्वम् ' इति पाठश्चेत्प्रकरणसमुचितः।
2 चाष्टपल्लवम् A
For Private and Personal Use Only