SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २७] शक्तिमन्त्रसाधनम् ३०१ तदङ्गानि हृदादीनि हस्ते देहे च विन्यसेत् । तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् ॥ २२ ॥ प्रदेशिन्यादितो हस्ते देहे तदनु विन्यसेत् । उत्तमाङ्गेऽथ हृन्मध्ये ऊर्वोर्जानुद्वये तथा ॥ २३॥ लावण्याद्याश्च चत्वारो हनामादौ करद्वये । अङ्गुष्ठान्तं करे न्यस्य देहे तदनु नारद ॥ २४ ॥ दक्षिणे च तथा वामे स्कन्धे पक्षद्वये तथा । [लक्ष्म्या मानसयागः ] न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेदादि ॥२५॥ लययागमयोगेण लक्ष्मीमत्रं तु केवलम् । कृत्वावलोकनायं तु ततो बाह्ये तु विन्यसेत् ॥ २६ ॥ [बाह्ययागार्थो मण्डले विन्यासः ] मूर्तिमन्त्रयुतं मूलं कर्णिकोपरि नारद । सकलाकलदेहं च सर्वमन्त्रात्मकं प्रभुम् ॥ २७ ॥ तदुत्सङ्गगता लक्ष्मी स्वमत्रेणावतार्य च । पूवोक्तध्यानसंयुक्तां भोगमोक्षपसिद्धये ॥ २८ ॥ तदानेये तदीशाने वायवीये च नैऋते । चत्वारि हृदयादीनि नेत्रं केसरसन्ततौ ॥ २९ ॥ तदने दक्षिणे पृष्ठे वामपत्रे क्रमान्यसेत् । चतुष्टयं तु शुद्धा(ऋद्ध्या ?), द्विभुजं तु तदाकृति ।। ३० ॥ पद्मगौरपतीकाशं श्रीवृक्षचमराङ्कितम् (?) । पद्मासने चोपविष्टं प्रेक्षमाणं तदाननम् ॥ ३१ ॥ स्वस्तिकानां तदीशादिकोणस्थाने निवेश्यते । लावण्याद्यचतुष्कं तु पीतवर्ण चतुर्भुजम् । ३२ ॥ नीलकौशेयवसनं पद्मकुम्भकरान्वितम् । नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ ३३ ॥ द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा । [ जपहोमादिविधिः ] मूलमन्त्रयुतां देवी लक्ष्मी लक्ष्मीप्रदां द्विज ॥ ३४ ॥ I चरमाङ्गि V. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy