________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
.
०
जयाख्यसंहिता
[प. २७
[लक्ष्म्या अङ्गमन्त्रः] आदाय पुण्डरीकं तु घरेशं तदधो न्यसेत् । अनलं तदधास्थं च कृत्वा षोढा नियोज्य च ॥११॥ क्रमेण योजयेदेषामानन्दं प्रथमस्य च। विष्णुमूर्जमथैश्वर्यं भूधरं परमेश्वरम् ॥ १२ ॥ चान्द्री व्योमेशसंयुक्तां सर्वेषामुपरि न्यसेत् । विद्धि षड्ढदयादीनि
[लक्ष्म्याः सखीमन्त्रः]
सखीनामधुना शृणु ॥ १३ ॥ आदाय केवलं सत्यं तत्स्थितं वरुणं ततः। मायायुक्तं ततः सोमं वरुणं रामभूषितम् ॥ १४ ॥ चान्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मनि वै ततः । ऋद्धिः वृद्धिः समृद्धिश्च विभूतिरपि सा सखी ॥ १५ ॥
[ लक्ष्म्या अनुचरमन्त्रः ] लकारस्त्वादिदेवस्थस्सोमोऽथ भुवनस्थितः । द्विधाऽमृतं समादाय भूधरेण समन्वितम् ।। १६ ॥ पूर्ववचिरसंयुक्तमेतत्कुर्याच्चतुष्टयम् । लावण्यः सुभगो नाम्ना मौभाग्यश्च तृतीयकः ॥ १७ ॥ चतुर्थस्सौमनस्यश्च चत्वारोऽनुचराः स्मृताः । सर्वेषां प्रणव पूर्व नामस्वाहानमोनुगम् ॥ १८ ॥
[मण्डलम् ] चतुरस्रं चतुर कृत्वा पूर्वोदितं पुरम् । तन्मध्येऽष्टदलं पद्म लिखेच्छुल्लारुणप्रभम् ॥ १९ ॥ सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च ।
[न्यासः ] व्यापकत्वेन तु पुरा माणिबन्धमुखादिगम् ॥ २० ॥ विन्यस्य मूलमन्त्रं तु हस्ते देहे च केवलम् । पश्चादादौ तु हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् ॥ २१ ॥
J वाव्य: A
For Private and Personal Use Only