________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.२७]
शक्तिमन्त्रसाधनम्
अथ शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः
श्रीभगवान् - अनुक्रमेणाथ मुने लक्ष्म्यादीनां च साधनम् । विविधानि च कर्माणि मन्त्रेभ्यो बवषारय ॥१॥
[लक्ष्यादिषु अनन्ताद्यासनस्य साधारण्यम् ] अनन्तं च तदूर्वे तु धर्माचं यच्चतुष्टयम् । पद्मं धामत्रयोपेतं सर्वमन्त्रगणस्य च ॥२॥ सामान्यमासनं विद्धि पूजाकाले तु सर्वदा ।
__ [तत्र द्वारयागादेः साधारण्यम् ] द्वारयागो गणेशादिपूजनं मुनिसत्तम ॥ ३ ॥ लोकेश्वरास्त्रयागश्च सर्वत्र विहिताः सदा । देवीचतुष्कयागे तु षटके तु हृदयादिके ॥ ४ ॥ नृसिमकपिल कोडयागेषु च यजेविज ।
[लक्ष्यादियागादन्यत्र विष्वक्सेनपूजनप्रतिषेधः ] विष्वक्सेनस्तु नान्यत्र पूजनीयः कदाचन ।। ५ ॥
[तत्तन्मन्त्राणां तत्तद्धृदयेनैवोपचारः] यं यं प्रपूजयेन्मन्त्री मन्त्रं सिद्धिपरायणः। तन्मन्त्रं हृदपेनैव तं तमेवोपचार्य च ॥ ६ ॥ नोपचारिकमन्त्रान्वै पूर्वोक्तान्विनिवेशयेत् ।
[जपसूत्रे विशेषः] न मूलमन्त्रसंरुद्ध सूत्रं तु जपकर्मणि ॥ ७ ॥ तन्मन्त्रेण तु संस्कृत्य पुरा सन्धाय चापरम् ।
[धूपघण्टादीनां साधारण्यम् ] सामान्यं सर्वमन्त्राणां धूपघण्टा पुरोदिता ॥८॥ यागागारं तथा कुण्डं मुक्नुपौ मुनिसत्तम । अथाङ्गषटुं व्याख्यास्ये लक्ष्याचादौ तु लक्षणम् ।। ९॥ चतुणी तु सखीनां च बीजमन्त्रचतुष्टयम्।। चतुणोमनुगानां तु क्रमेण च यथास्थितम् ॥१०॥
1 क्रुद्धं A. 2 स्तु Y.
For Private and Personal Use Only