________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८ जयाख्यसंहिता
[प. २६ सामान्यमपि यत्किंचिद्भूतले कर्म विद्यते । स्मरणात्सवेमेवाशु साधकानां प्रयच्छति ।। १२१ ॥
[मन्त्रराजस्य महिमाविशेषः] इदमन्यत्मवक्ष्यामि मुनिश्रेष्ठ निबोध में । मन्त्रराजस्य यद्वीये पाहात्म्यं प्रभविष्णुता ॥ १२२॥ येनायं पूजितः सम्यक् ज्ञातो ध्यातः सकृत्स्मृतः । तस्य सिद्धिः परा दिव्या मानुषी संप्रवर्तते ॥ १२३ ॥ न चास्य सदृशो मन्त्रो मन्त्रराजस्य विद्यते । मुखसौभाग्यसंपत्तेरपवर्गप्रसिद्धये ॥ १२४ ॥ इमं मन्त्रेश्वरं जावा भक्तिश्रद्धापरस्तु यः । तचित्तो विजने स्थाने सर्वान्कामानवामुयात् ॥ १२५ ॥ किमन्यैस्तस्य विप्रेन्द्र मन्त्रकोटिशतैरपि । स तु चिन्तामणिप्रख्यो यस्यायं हृदि वर्तते ॥ १२६ ॥ सर्वकामपदः सद्यो देहान्तेऽपि च मोक्षदः । इमं मन्त्रेश्वरं जत्वा सर्वान्कामानवाप्नुयात ॥ १२७ ।। नचास्य सदृशो मन्त्री मन्त्रैः कोटिशतैरपि । एवं मन्त्रवरं लब्ध्वा धुनेत्सर्व फलाफलम् ॥ १२८ ॥ चिन्तामणिर्यथा लोके सर्वाभीष्टं प्रयच्छति । एवं मन्त्रेश्वरो ह्येष साधकाय प्रयच्छति ॥ १२९ ॥ ऐहिकामष्मिकं सर्व सम्यगाराधितः सदा । लक्षायुतायुते जसे पूजाहोमादिकविना ॥ १३० ॥ प्रयच्छत्यणिमादीनि जपान्ते मन्त्रराड् द्विज । प्राणायामादिसंयुक्तो धारणाध्यानतत्परः ॥ १३१ ॥ विना हवनपूजाभ्यां लक्ष लक्षं स्थितो जपेत् । साक्षात्पश्यति देवेशं विष्णुं परमरूपिणम् ॥ १३२ ॥ एतदुद्देशतो विप्र कर्म मन्त्रेश्वरस्य तु । भक्त्यर्थ साधकेन्द्राणां कथितं नातिविस्तृतम् ॥ १३३ ॥
तनास्ति यन्न मन्त्रेशः साधयेत्परितोषितः। इति श्रीपांचरात्रे जयाख्यसंहितायां साधकस्य मूलमन्त्रसाधनं नाम षाईिशः पटलः ।
1 त्सकृत A. 2 मनो A. 3 न्व
रो A.
For Private and Personal Use Only