SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २६ ] मूलमन्त्रसाधनम् २९७ वलयाकृतियोगेन नाम तन्मध्यतो लिखेत् । नारसिह्मादयो मन्त्रास्त्रयो लेख्या दलत्रये ॥ १०७ ॥ भूयो भूयश्चतुवोरं बाह्यपद्यं च वेष्टयेत् ।। क्रमात्पद्मादिकैर्मन्त्रैस्सर्पकुण्डलयोगतः ॥ १०८ ॥ वक्रदेशेऽथ शङ्खस्य क्रमाल्लोकेश्वरा दश । अस्त्रमन्त्रास्तथा सख्यः शङ्खस्याथो निवेशयेत ।। १०९ ॥ इदं यन्त्र मुनिश्रेष्ठ सर्वमन्त्रैरधिष्ठितम् । सर्वकर्मकरं प्रोक्तं सर्वोपप्लवनाशकम् ॥ ११० ॥ सर्वरोगविघातं च सर्वामयविनाशनम् । [तिथिनक्षत्रविशेषात्फलभेदः ] सर्वमङ्गलकृत्सम्यक् पुष्यलिखितं भवेत् ॥ १११ ॥ द्वादश्यामथ शुक्लायां पूजयित्वा यथाविधि । अभिषेकविधानेन शान्तिके पौष्टिके लिखेत् ॥ ११२ ॥ रक्षार्थ सर्वभूतेभ्यो योज्यं सर्वत्र सर्वदा । [आहुतिद्रव्यभेदात् आहुतिसङ्ख्याभेदाच्च फलमेद: ] लक्षाहुतिप्रदानेन तिलानां कृष्णवर्चसाम् ॥ ११३ ।। पूजयेद्वत्सरं यत्तु होमान्तेऽथ घृताहुतीः।। आपाध द्वादशशतं स्रुचा सम्यमहामुने ॥ ११४॥ ददाति तस्य भगवान् यत्किञ्चिन्मनसेप्सितम्। एकादश सहस्राणि कमलानां तु नारद ॥ ११५॥ जुहुयाच घृताक्तानामेकान्ते विजने तु यः । समुद्धृत्योदकात्सद्यस्तस्य लक्ष्मी प्रयच्छति ॥ ११६॥ योऽयुतं चाथ बिल्वानां घृताक्तानां तु होमयेत् । तस्य क्षिप्रं ददात्येष मन्त्रेशो विपुलं धनम् ॥ ११७ ॥ ग्रामानश्वान्सुवर्ण च दर्शयेत्तु कृताकृतम् । आयुः पुत्रानथारोग्यं सौभाग्यं सर्वतोमुखम् ।। ११८ ॥ यस्या अग्रे देवताया इमं मन्त्रेश्वरं जपेत् । सा तस्मै सकलान्कामान्मसन्ना संप्रयच्छति ॥ ११९ ॥ साधितो मन्त्रसिद्धिर्हि (दया हि!) मन्त्रराजः करोति च । प्रसादितश्च पूजाथैः कर्मणा चाग्निकेन तु ॥ १२० ॥ ૨૮ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy