SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २९६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [ उत्पातप्रशमनम् ] लिखितं भूर्जपत्रे तु क्षीराम्भोविनिवेशितम् । उत्पातानि महोग्राणि साभिचाराणि नाशयेत् ॥ ९४ ॥ [ विषशस्त्रादिभयप्रशमनम् ] त्रिलोह वेष्टितं कृत्वा पुष्यर्क्षे लिखितं तु वै । द्वादश्यां शुक्लपक्षे वा मध्यंदिनगते वौ ।। ९५ ॥ कण्ठे तथा मूर्ध्नि यस्तु धारयते सदा । विषशस्त्राग्निभूतेभ्यो भयं तस्य न जायते ॥ ९६ ॥ [ चक्रयन्त्रसाधनम् ] रोचनाचन्दनेनैव भूर्जे वा सितकटे । [ प. २६ चक्रं कुर्याद्विषट्कारं नाभिनेमिसमन्वितम् ॥ ९७ ॥ तन्मध्ये कमळं कुर्यात् षोडशच्छदभूषितम् । यर्णेन मूलमन्त्रेण नामसंपुटयोगतः ॥ ९८ ॥ विलिख्य तद्बहिर्दद्यान्मन्त्रं यो द्वादशाक्षरम् । परिवेषप्रयोगेण पत्रे पत्रे लिखेत्ततः ॥ ९९ ॥ देवीनां हार्दकं बीजं चतुर्धा केसरावधौ । अष्टाष्टकं तु बीजानां यावदेकत्र सङ्ख्यया ।। १०० ॥ ततः सर्वदलाग्रस्थः प्रणवो लिख्यते द्विज । पुष्पपत्रात्समारभ्य हकाराद्यं च विन्यसेत् ।। १०१ ॥ क्रमान्मकारपर्यन्तं ततः पद्मस्य बाह्यतः । शिरः शिखां च कवचं नाभित्रितयगं लिखेत् ॥ १०२ ॥ परिवेषप्रयोगेण चक्रारेषु लिखेत्ततः । अस्त्रा द्वादशधा विप्र एकैकस्यान्तरे ततः ॥ १०३ ॥ नेत्रमन्त्रं त्रिधा दद्यान्नाभिवन्नेमिमण्डले । For Private and Personal Use Only यन्त्रोऽयं मुनिशार्दूल सर्वोपद्रवनाशनः ॥ १०४ ॥ धारणात्स्मरणाद्धयानान्नास्ति तद्यन्न साधयेत् । [ शङ्खयन्त्रम् ] शङ्खोदरगतं पद्मं लिखित्वा 'द्वादशच्छदम् ॥। १०५ ।। समदेन तुषारेण कुडुमेन तथैव च । विलिख्य कर्णिकामध्ये त्र्यक्षरं मूर्तिसंयुतम् ॥ १०६ ॥ 1 द्विदश CL
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy