________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलमन्त्रसाधनम्
२९१
मा यान्महती पूजां दर्शनानात्र संशयः॥ ३०॥
[उच्चाटनप्रकारः] वायव्यभुवनान्तस्थं मन्त्रं नीलांबुदप्रभम् । निराधारं तदन्तस्थं ध्यायेत्साध्यं कृशं महत् ॥ ३१ ॥ नीलाम्बरधरं कृष्णं शुक्लवर्णसमं लघु । देवं (व?) नासानिलेनैव पूर्यमाणं नभस्यले ॥ ३२ ॥ भ्राम्यमाणं निराधारे उच्चाटसचिराच सः ।
[विद्वेषणविधानम् ] आमेयभुवनान्तस्थं चाषपक्षसमद्युतिम् ॥ ३३ ॥ ध्यात्वा मन्त्रेश्वरं क्षिप्रं तत्पाद' गो(द्वयगौ?)स्मरेत् । द्वौ साध्यौ हुतभुगूपी वीक्षमाणौ परस्परम् ॥ ३४ ॥ पादं पदा ताडयन्तावभीक्ष्णं चातिवंगतः। करोति विष विद्वेषं ध्यानमात्रान संशयः ॥ ३५ ॥
[आकर्षणम् ] सूर्यमण्डलमध्यस्थं ध्यायेन्मत्रेश्वरं द्विज । भग्नराजोपलाभं तु घाणाग्रस्थेन वायुना ॥ ३६ ॥ कर्षयन्तं सुदूराच्च साध्यं भास्वरविग्रहम् । विधिनाऽनेन भगवान् ध्यान(त?)स्त्वाकर्षणे सदा ॥ ३७॥ आकृष्य भवनं सर्व साधकस्य ददाति च । सितपद्मोत्तरस्थं तु मन्त्रं ध्यात्वा खगासनम् ॥ ३८ ॥ वर्णतः सितरक्ताभं तत्पाणिद्वयगौ तु वै । द्वौ तु साध्यौ तदाकारौ पतन्तौ तौ तु संस्मरेत् ॥ ३९ ॥ हृष्टतुष्टप्रसन्नात्मा प्रीत्यर्थ मुनिसत्तम । नयेत्....पथञ्चैव विधिनाऽनेन मन्त्रराट् ॥ ४०॥ हुताशसलिले द्वे तु किं पुनर्मानवान्मति ।
- [मारणम् ] वायुवह्निपुराभ्यां तु मध्ये चक्रोदितं प्रभुम् ॥४१॥ संस्मरेत्कृष्णरक्तं तु साध्यं तत्पादतो हतम् । निष्पीड्यमानं वेगेन चक्रक्षेप्रैर्गतासुवत् ॥ ४२ ॥ 1 दंभोगसंस्म Y 2 न्भुवि A
For Private and Personal Use Only