________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाश्यसंहिता
[५. २६
त्रिजप्तं गुग्गुलं धूपं प्रदद्यादात्मनः स तु । शीताद्भिः शरदण्डवा सप्तजसैस्तु ताडयेत् ।। १७ ॥ जयां मुद्रां ततो बध्वा मनमस्त्रयुतं जपेत् । यथेष्टं निग्रहं चास्य मश्रेणानेन कारयेत् ।। १८॥ गया ताडयेन्मूर्ध्नि कर्ण करविलिप्तये । अथ वा प्रतिमां कुर्याद्रगोमयेन गृहस्य तु ।। १९ ॥ चक्रेणाङ्गानि कृन्तेत्तु यदि क्षिप्रं न मुञ्चति । मुश्चामीति यदा ब्रूयात् शपथं कारयेत्सदा ॥ २० ॥ विसर्जयेद्वालिं दत्वा शिखादिग्बन्धमोक्षणात् । कर्मणा मनसा चैव तथा वाचापि मोक्षयेत् ॥ २१ ॥
[विषप्रशामनप्रकारः] ठकारोदरगं मनं कलाषोडशसंयुतम् । . स्रवन्तममृतं ध्यायेच्चन्द्रमण्डलसत्रिभम् ॥ २२ ॥ वामहस्ते विचिन्त्यैवं साध्यमूर्ति निवेशयेत । तेनामृतेन संपूर्य विग्रहं त्वातुरस्य च ॥ २३ ।। हरेद्विषाण्यशेषाणि विधिनाऽनेन योजितः ।
[वशीकरणप्रकारः] सप्त जतानि पुष्पाणि सुगन्धाक्तानि दापयेत् ॥ २४ ॥ वामहस्तेन नारीणां पाणौ तासां च दक्षिणे। वामपाणौ तु विभेन्द्र नृणां दक्षिणपाणिना ॥ २५ ॥ सधस्तद्वशतां यान्ति मन्त्रस्यास्य प्रभावतः।। चन्द्रमण्डलमध्यस्थं मनं ध्यात्वा करोदरे ॥ २६ ॥ यस्य तदर्शयेद्धस्तं शिमं तं वशमानयेत् । न्यासं कृत्वा तु पूर्वोक्तं कान्तं रूपं विचिन्तयेत् ॥ २७ ॥ क्रुद्धस्याप्यग्रतः स्थित्वा क्षिप्रं तं वशमानयेत् । पत्रं पुष्पं फलं वाऽपि त्रिजप्तं यस्य दीयते ॥ २८ ॥ वशमायाति स क्षिप्रं मन्त्रस्यास्य प्रभावतः । रोचनाकुडमाभ्यां वा भस्मना चन्दनेन वा ॥ २९ ॥ प्रजप्य तिलकं कृत्वा विशेद्राजकुंळं यदि । 1 गृहं A
For Private and Personal Use Only