________________
Shri Mahavir Jain Aradhana Kendra
१. २६]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलमन्त्रसाधनम्
[ मन्त्रसाधने देशैवैलक्षण्यादिनियमः ] साधकः संयतो भूत्वा मन्त्रव्रतपरायणः ॥ ३ ॥ महोत्साहः शुभाचारो धीरस्सर्वगुणान्वितः । पुण्यक्षेत्रेषु तीर्थेषु नदीनां सङ्गमेषु च ॥ ४ ॥ देवताऋषिजुष्टेषु कुर्यात्स्थानपरिग्रहम् । पवित्राहारसंपन्नः सङ्करैः परिवर्जितः ।। ५ ।। पेल्लक्षत्रयं धीरो मत्रार्पितमनाः सुधीः । पूर्वोक्तेन विधानेन अखिलेन द्विजोत्तमः ॥ ६ ॥ संत्यज्यानेककर्माणि सिद्धस्तु ददाति च । नियोजितः करोत्याशु वश्याकर्षणमारणान् ॥ ७ ॥ ग्रहज्वरविषादीनां भूतानां च प्रमर्दनम् । डाकिनीनां च सर्वासां हासने मन्त्रनायकम् ॥ ८ ॥ यथा नियोजयेत्सम्यक् तथा शृणु समाहितः । [ मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः ] कृत्वा तु मण्डलं दिव्यं तत्र कुंभं निवेशयेत् ।। ९ ।। पूर्वोक्तेन विधानेन इष्ट्वा देवं जनार्दनम् । स्थापयेत्पुरतस्तस्य शुचिमातुरमासने ॥ १० ॥ परिजप्य तु पुष्पाणि सिद्धार्थसहितानि तु । शताष्टपरिजप्तानि हस्ताभ्यामातुरस्य च ॥ ११ ॥ स्वहस्ते मण्डलं ध्यायेत्रिकोणे वह्निलांछितम् । तन्मध्ये देवदेवेशं तेजोरूपं विचिन्तयेत् ॥ १२ ॥ दीप्तचक्रगदापाणि सर्वदुष्टांश्च तर्जयेत् । तद्धस्तं दर्शयेत्साध्ये क्षिप्रमावेशकारकम् ॥ १३ ॥ तं दृष्ट्वा सर्वभूतानि आविशन्ति भयार्दिताः । प्रविष्टमात्रं दृष्ट्वा तं शङ्खबन्धं तु कारयेत् ॥ १४ ॥ मूलमन्त्रेण मन्त्रज्ञः सार्ण संपुटितेन तु । भस्मना चास्त्रजप्तेन दिग्बन्धं चात्र कारयेत् ॥ १५ ॥ अस्त्रजप्तेन मत्रेण भस्मना ताडयेद्बुधः । ताडयेत्सप्तजतैस्तु कुशैः सिद्धार्थकैः पुनः ॥ १६ ॥ 1 A 2 मानसे A
૨૦
For Private and Personal Use Only
२८९