________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९२
जयाख्यसंहिता
[प. २६ ध्यायेद्विलुप्तशक्तिं च निमीलितविलोचनम् । मारयत्यचिरेणैव विपक्षो यस्य साधकः ॥ ४३॥
[स्तम्भनम् ] माहेन्द्रमण्डलान्तस्थं कुङ्कमोदकसन्निभम् । प्रपीडयन्तं पादाभ्यामाधारं यन्त्रसंस्थितम् ॥ ४४ ॥ स्तम्भयत्यचिरेणेव यं यमिच्छति साधकः ।
[पुष्टिविधानम् ] चन्द्रमण्डलमध्यस्थं पीतं पीताम्बरं प्रभुम् ॥ ४५ ॥ वमन्तममृतं वक्रात्तत्पीयूषं द्विजाधिप । विशन्तं ब्रह्मरन्ध्रेण स्मरेत्साध्यस्य हृद्गतम् ॥ ४६॥ सवोङ्गानि च तत्स्येन आक्रान्तानि च भावयेत् । पुष्टाङ्गो जायते शश्वद्विधिनानेन मानवः ॥४७॥
[शान्तिकविधानम् ] सितपद्मयुगान्तस्थं संपूर्ण च शशिप्रभम् । विचिन्त्यैकमजस्यो द्वितीयमधरस्थितम् ।। ४८ ।। निशाम्बुकणसङ्काशं स्वच्छन्दं मध्यतः स्थितम् । मुञ्चन्तं सलिलं देहाच्छीतलं क्षीरवस्थितम् ॥ ४९ ॥ सिच्यमानं स्मरेत्साध्यं तेन तं तदधःस्थितम् ।। जायते शान्तिकं सम्यग्यस्य यस्य द्विजेच्छसि ॥ ५० ॥
[पु(तुः)ष्टिविधानम् ] कुड्डमोदकसङ्काशं पूर्णचन्द्रान्तरस्थितम् । ध्यात्वा मन्त्रं पुरा विष वमन्तममृतं मुखात् ॥ ५१ ॥ वर्णतः सितपीताभं तदग्रस्थं च भावयेत । पिबन्तं पाणियुग्मेन आत्मानमथवातुरम् ॥ ५२ ॥ पु(तु!)ष्टिरुत्पद्यते शश्वन्मन्त्रराजप्रभावतः । एतत्पूर्वोक्तजापस्य फलमुक्तं समासतः ।। ५३ ॥ अनुक्तान्यपि कमाणि कुरुते चात्र योजितः । योज्यं कर्मपदं चैव परिकर्मणि यत्नतः ॥ ५४॥ कुरु वीप्सासमेतं च ध्यानेन परिभावितम् । पूर्वोक्ताद्विगुणाजापाच्चैव सिद्धिमवाप्नुयात् ॥ ५५ ॥
For Private and Personal Use Only