SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ जयाख्यसंहिता [प. २५ [ शास्त्रादिहरणे प्रायश्चित्तम् ] परत छद्मना ज्ञानं हृतं शास्त्रं तु वा मुने ॥ ८१ ।। मूर्तिमन्त्रायुतं मूलं जपेदयुतसंख्यया । [गुरुदारादिनिन्दने प्रायश्चित्तम् ] गुरोः स्त्रियं मुतां वाऽपि निन्दन्दै यस्तु मोहितः ।। ८२ ॥ शतं शतं च देवानां जप्यमस्त्रं यथाक्रमम् । [प्राणिघाते प्रायश्चित्तम् ] सतेज माणिघाते तु निरस्थिनि हते सति ॥ ८३ ॥ कामतोऽकामतो द्विवो सत्यमन्त्रं सकृत्स्मरेत् । आखुधाते च दशधा माजोरे शतधा तु वै ॥ ८४ ॥ श्वशृगालवधे चैव द्विगुणं कपिकुक्कुटे । सर्पाद्यण्डजघाते तु हंसादिशकुनिष्वपि ॥ ८५ ॥ सिंहादिमगघाते च अजादिपशुपातने । शताचतुश्शातान्तं तु नृसिलं वै जपेत्क्रमात् ॥ ८६ ॥ [श्वशृगालादिदंशे प्रायश्चित्तम् ] श्वशृगालादिसर्वेषां यदि दंशः प्रमादतः । स्नात्वा शीताप्सुमध्यस्थो गारुडं द्विशतं जपेत् ।। ८७ ॥ [असत्प्रतिग्रहे प्रायश्चित्तम् ] कामतोऽकामतो वापि असक्त(त?)श्च प्रतिग्रहम् । गृहीतं मुनिशार्दुल सिजापी विशुध्यति ॥ ८८ ॥ शतत्रयाचाचिरेण स्नानध्यानेन नारद । [श्वपाकादिस्पर्शे प्रायश्चित्तम् ] श्वपाकम्लेच्छचण्डालकरङ्कनृकपालिभिः ॥ ८९ ॥ स्पर्शने सोमकृधूपश्मशानद्रुमपुल्कसैः । कृत्वा स्नानं सचेलं तु सिममन्त्रं शतं जपेत् ॥ ९० ॥ [वैष्णवादिनिन्दादौ प्रायश्चित्तम् ] निन्दनाद्वैष्णवानां च दीक्षितानां विशेषतः । गुर्वाज्ञालकन्नाचैव गुरुद्रव्य उपेक्षणात् ।। ९१ ॥ सत्यं बीजं जपेत्साष्टशतं वे मुनिसत्तम । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy