________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २५]
प्रायश्चित्तविधिः
२८९
[ रत्नादिपरिग्रहे प्रायश्चित्तम् ] रत्नानि रजतं हेम विद्रुमं मौक्तिकं तथा । गृहीत्वा कापिलं मन्त्र जपेत्कामाच्छतत्रयम् ॥ ७० ॥ अकामाच तमेकं तु जपेद्धयानपरायणः । ताम्रादिलोहमादाय नृपशैलादिधातुकान् ॥ ७१ ॥ कामतोऽकामतो जप्यो नृसिझो वे शते शतम् ।
[गवादिप्रतिग्रहे प्रायश्चित्तम् ] 'गामश्वं वृषभं हस्ति स्त्रियोऽवाश्वतरं तु वा ॥ ७२ ।। गृहीत्वा नृहरि प्यः कामतोऽष्टातं मुने । शतत्रयमकामेन सोपवासस्त्वसौ जपेत् ॥ ७३ ॥
[शाल्यादिप्रतिग्रहे प्रायश्चित्तम् ] सस्यानि शालयः सर्वे गृहीताश्च प्रतिग्रहाः । शतत्रयं द्वयं चैव कामाकामे छुदङ्मुखः ॥ ७४ ॥
[ भूदानप्रतिग्रहे प्रायश्चित्तम् ] केवलाल्पावनि चैव गृहीत्वा नृहरिं जपेत् । सहस्रसंख्यया चैव संपन्नां फलशालिभिः ॥ ७५ ॥ कुयोद्विगुणमेतं वै कामतोऽकामतो जपम् । मठमतिग्रहेऽप्येवमध वेश्मपतिग्रहे ॥ ७६ ॥
[पापसंकरे प्रायश्चित्तम् ] पापानामप्यनेकानां सङ्करे सति नारद । मूलमनं जपेरसाङ्गं शतमष्टाधिकं तु वै ॥ ७७ ।। ततः सत्यादिकाः पञ्च परावृत्या शतं शतम् । जपेत्ससाक्षरं मन्त्रं शतमष्टाधिकं द्विज ॥ ७८ ॥ अन्नसङ्करदोषाच शुद्धिमायाति तत्क्षणात् । एवमेव जपं कुर्यादुत्पन्ने भाण्डसंकरे ॥ ७९ ॥ योनिसङ्करशुध्यर्थे जपेत्सत्यं शतत्रयम् ।
[ काष्ठादिहरणे प्रायश्चित्तम् ] काष्ठोपलणादीनां हरणे सति नारद ॥ ८० ॥
कामतोऽकामतश्चैव शिखामनं जपेच्छतम् । 1 गवावं Y. CL.
For Private and Personal Use Only