________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
जयाख्यसंहिता
[प. २५ प्राप्ते चायतने तीर्थे शास्त्रे सन्मार्गदर्शने ॥ ५८ ॥ गुरोर्विपत्तिश्रवणात्समाप्ते दशमे पुनः । एभिर्विना नृत्तगीते कृत्वा सत्यशतं जपेत् ॥ ५९ ॥ उपरोधादथ स्नेहात्कृत्वा शान्तिकपौष्टिके । शतत्रयं च वाराह जत्वा मन्त्रेशमर्चयेत् ॥ ६० ॥
[सूतकादौ शान्तिकादिकर्मसु पूजास्वीकारे प्रायश्चित्तम् ] सूतके मृतके चैव वर्तमाने तु नारद । कामतः पूजितो मन्त्री शान्तिकादौ तु कुत्रचित् ॥ ६१ ॥ जपेत्पञ्चशतं [चात्र] सिह्ममन्त्रस्य भक्तितः । शतत्रयमकामश्च प्रायश्चित्तविधौ जपेत् ॥ ६२ ॥
[ उच्चाटनादिकरणे प्रायश्चित्तम् ] उच्चाटनादीन्कृत्वा वै इच्छयाऽस्त्रं द्विजोत्तम । अयुतार्ध पुरावर्त्य तदर्ध चाप्यकामतः ।। ६३ ॥ न मारणं तु मन्त्रण कुर्यान्मन्त्री कदाचन ।
[चैत्यादिषु देवप्रतिष्ठाकरणे प्रायश्चित्तम् ] देवप्रतिष्ठा दीक्षां च कृत्वा चैत्यादिषु त्रिषु ॥ ६४ ॥ सङ्कर्षणादिकांस्त्रीन्वै क्रमशः परिवर्तयेत् । एकद्वित्रिशतैः साष्टैः कुर्याद्धवनपूजने ।। ६५ ॥
[पट्टादिप्रतिग्रहे प्रायश्चित्तम् ] पट्टः कार्पासकौर्णश्च क्षौममा तु वेष्टनम् । चर्म प्रतिग्रहेणैव गृहीत्वा यत्र कुत्रचित् ॥ ६६ ॥ हृदाद्यस्त्रावसानं षट् जपेद्वै षट्शतादितः । क्रमशस्त्वेकहीन्या तु एकैकस्मिस्तु नारद ॥ ६७ ॥ कामतोऽकामतश्चैव अर्धमधं पुरोदितात् ।
क्षीरादिप्रतिग्रहे प्रायश्चित्तम् ] क्षीरं दधि घृतं चैव तदुत्थमपि यद्विज ॥ ६८ ॥ लवणं मधु तैलं च सर्वमिक्षुसमुद्भवम् ।
गृहीत्वाऽस्त्रसमायुक्तं वराहं त्रिशतं जपेत ॥ ६९ ।। I त्पश्चशतीर्वात्रिः A त्पञ्चदशीर्वात्रिः CL.
For Private and Personal Use Only