________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
जयाख्यसंहिता
[प. २४
अश्वत्थतरुसंभूता अष्टौ तीक्ष्णा हि शङ्कवः ॥ १४ ॥ अयनलब्धा विभेन्द्र अन्यस्माधतिनः स्वयम् । छिन्द्यादश्वत्थवृक्षं तु पालाशाद्यमभावतः ॥१५॥ पीतं वा मुसितं सूत्रं क्षौमं कार्पास तु वा । समस्तधान्यानि तिलाः कृष्णास्सिद्धार्थकैर्युताः ॥१६॥ प्रभूतमिन्धनं शुष्कं पालाशाधं च पावनम् । तत्र चैशानदिग्भागमासाद्योपविशेद्गुरुः ।। १७॥
[ गुरुणाऽऽप्ययक्रमेण स्वाङ्गन्यासस्य कर्तव्यता ] समलङ्कृत्य चात्मानमापादाच शिरोन्तिमम् । मन्त्रेणाप्यययुक्त्या वै षडङ्गविधिना पुरा ॥ १८ ॥ [ मृतेन योऽनुष्ठितो मन्त्रस्तेन प्रथमं पूजनस्य कर्तव्यता ] तदनुष्ठानसंज्ञेन प्रारम्भे पूजयेद्द्विज । परिशिष्टस्य वाऽन्यस्य आचार्यस्यापि कस्यचित् ॥ १९ ॥ शासनस्थस्य भक्तस्य मन्त्रे चाविदिते सति ।
[तदपरिज्ञाने नारसिहामन्त्रेण पूजनविधिः ] प्रणवाद्यन्तरुद्धेन सामान्येन महात्मना ॥ २० ॥ नारसिह्मण चोग्रेण तस्योङ्कारः पुरा भवेत् ।। नमो भगवते कृत्वा नारसिहाय वै ततः ॥ २१ ॥ द्वादशाक्षरमन्त्रोऽयं सर्वैः सर्वत्र शस्यते । तन्नामपूर्ववर्ण तु दीर्घः पद्भिविभेदितम् ॥२२॥ तेषामाधावसाने तु प्रणवञ्चापि योजयेत् । प्रकल्प्य चाङ्गपटूं तु सामान्यस्य च संज्ञया ॥ २३ ॥
[कुम्भस्थापनतत्पूजन विधिः ] अन्तःस्थं पूजयित्वाऽऽदौ बहिस्तदनु पूजयेत् । प्रणवेन पुरा पीठं साधारं परिकल्पयेत् ॥ २४ ॥ तत्रार्चिते न्यसेत्पृष्ठे कलशं वारिपूरितम् । समायं (सामयं ?) विन्यसेन्मन्त्रं विलोमोच्चारयोगतः॥२५॥ अस्त्राधमङ्गषट्कं तद्वैपरीत्येन विन्यसेत् ।
For Private and Personal Use Only