________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २४]
संस्काराख्यानम्
हृद्यस्त्रं हृदयं चास्ने यथा भवति नारद ॥ २६ ॥ कृत्वैवं कलशे न्यासं तं यजेद्विधिना ततः । तत्रास्त्रकलशं कुर्यादासनं तत्र कल्पयेत् ॥ २७ ॥ फवारेण तु चक्राख्यं केवलं रक्तरूपधृक् । नाभिनेमिविहीनं तु तदूर्वं कलशं न्यसेत् ॥ २८ ॥ पुष्पायधूपैर्लिप्त्वा च अस्त्रमन्त्रं तदन्तरे । विसर्गफट्पदाद्यं तु वैपरीत्येन चोचरेत् ॥ २९ ॥ बलिदानावसानं तत्पूजयित्वा ततो द्विज ।
[अथ मण्डले (स्थंडिले) पूजनविधानम् ] तदने भद्रपीठं तु योजयेत्तदभावतः ॥ ३०॥ भूमावुपरि विन्यस्य आधारं प्रणवेन तु । ऐश्वर्याधं तदृर्श्वे तु धर्मान्तं चाथ विन्यसेत् ॥ ३१ ॥ हृन्मन्त्रेण तदूधै तु शेषं सपणवेन तु । कल्पयेन्मुनिशार्दूल रत्नपुञ्जनिभं महत ॥ ३२ ॥ हृदयाचैव तत्पृष्ठे मन्त्रमावाह्य विन्यसेत् । केवलं लयदेहं तु पूर्वोच्चारक्रमेण तु ॥ ३३ ॥
[कुण्डे हवनविधानम् ] पूजयित्वा यथान्यायं तदग्रेऽथ प्रकल्पयेत् । प्रमाणरहितं कुण्डमेकं मेखलयाऽन्वितम् ॥ ३४ ॥ तत्संस्कृत्य पुरा तत्र गगनादवतार्य च । सूर्यकान्तेन मणिना वैष्णवं जातवेदसम् ।। ३५ ॥ लौकिकं तदभावाच्च आनाय्य तु तथा स्मरेत् । तत्र दर्भास्तरं दद्यात्रिधा दिश्वन्तरा ग्रहम् (?) ॥ ३६ ॥ संस्कृत्य पावकं प्राग्वन्नमोऽन्तं जुहुयात्ततः ।
होमः] मूलमन्त्रं शतं साष्टं तिलैराज्येन वै तथा ॥ ३७॥ संहारक्रमयोगेन स्मृत्वा मन्त्रं ततोऽन्तगम् । दद्यात्पूर्णाहुतिं विप्र ततश्चार्ष्याम्बुना तु वै ॥ ३८ ॥
For Private and Personal Use Only