________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१.
प. २.]
संस्काराख्यानम् यायात्कृताहिकः शश्वदभुक्तानो विशेषतः।
[शवसंस्कारविधानम् ] मागुक्तया पुरा दृष्टया अवलोक्य च तं द्विज ॥४॥
[शवस्य स्नपनालङ्करणे] दत्वाऽऽज्ञां तु समुत्थाप्य स्नापयेत्तु मृतं पुरा। अस्त्रमन्त्राभिजतेन गोमयेन मृदम्भसा ॥५॥ मुगन्धामलकै नाप्य सर्वोषध्युदकेन च । चन्दनेन समालिप्य सबाह्रीकेन नारद ॥ ६ ॥ सकषाये सिते वाऽथ वाससी घधरोत्तरे। परिधाप्योपवीतं च सोत्तरीयं तथा नवम् ॥७॥ पवित्रकद्वयं तत्र योज्याङ्गुल्योः कुशैः कृतम् । पुष्पस्रग्भूषितं कृत्वा स्थाप्य यन्त्रे पटाहते ॥ ८॥
[शवस्य संस्कारस्थाननयनम् ] गृहीत्वाऽथ स्वजातीयैर्दीक्षितैर्वाऽप्यदीक्षितैः। तनयेत्संस्कृतिस्थानमस्थ्यङ्गारादिवर्जितम् ॥ ९॥
[संस्कृतिस्थानसमीकरणम् ] उपलिप्य पुरा तद्वै समीकृत्य यथाविधि ।
[ भैक्षपात्रादिद्रव्याणां तदीयानां तच्छवेन सह नयनम् ] भैक्षपात्रं तथा दण्डं सुनुवौ चाक्षसूत्रकम् ॥ १० ॥ पादुके आसनं चैव योगपट्ट तथैव च । दारवं भद्रपीठं च सार्घ्यपात्रं कमण्डलुम् ॥ ११ ॥ भांत्रोपकरणं सर्वं तदीयं मुनिसत्तम ।
[तत्र वर्ण्यद्रव्याणि ] हिरण्यवस्त्रशास्त्रैश्च घण्टया च विवर्जितम् ॥ १२ ॥ सच्छाद्धकाले दातव्यं तत्मीत्यर्थ हि कस्यचित् ।
[प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम् ] नयेत्तस्याग्रतः पुष्पमाम्बुकुसुमादिकम् ॥ १३ ॥ उपयोज्यं च यत्तत्र अर्चने होमकर्मणि।
For Private and Personal Use Only