________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
जयाख्यसंहिता
[प. २३-२४ अवमार्योदकं तद्वै स्थाने निक्षिप्य पावने । इति मन्त्रमयश्राद्धं कुरुते सुगतिपदम् ॥१४८॥
[गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता ] समयज्ञादिकै कार्य गुरूणामात्मसिद्धये । पित्रादीनां च स्वमुतैर्गुरुभिश्चानुकम्पया ॥१४९॥ समयव्रतपूर्वाणां शिष्याणां भावितात्मनाम् । यद्यप्यनुप्रयोज्यं स्याच्छ्राद्धं सदीक्षितस्य च ॥ १५० ॥ क्रियासंज्ञेन तत्रापि कार्यमात्महिताप्तये । दीक्षासममिदं श्राद्धं कुगतेः मुगतिपदम् ॥१५१ ॥ सदैव दीक्षितानां च यागे यज्ञे च वैष्णवे । तस्मात्सर्वप्रयत्नेन यथालब्धेन केनचित् ॥ १५२ ॥ वस्तुनापि पवित्रेण इदं श्राद्धं समापयेत् ।
[श्राद्धानुष्ठानस्य प्रशंसा] कदनेन कुदेशे च अपात्रे चापि नारद ॥ १५३॥ ध्यानविज्ञानमन्त्रायैः संपाचं विद्धि शाश्वतम् । देशकाले तथा पात्रे श्रद्धापूतं तु किं पुनः ॥ १५४ ॥ वैष्णवः परमं पात्रं देश आयतनं हरेः।। द्वादशी सर्वकालानामुत्तमा परिकीर्तिता ॥ १५५ ॥ इतिश्रीपाञ्चरात्रे जयाख्यसंहितायां श्राद्धविधानं नाम त्रयोविंशः पटलः । अथ संस्काराख्यानं नाम चतुर्विंशः पटलः ।
नारदःकाम्यं (कव्यं ?) पेतं पितृश्राद्धं त्वत्प्रसादान्मया श्रुतम् । इदानीं श्रोतुमिच्छामि गतासूनां च संस्कृतिम् ॥ १॥ त्वच्छासनप्रपन्नानां कथयस्व समासतः। उदीरितं त्वया पूर्व नोदितं च परिस्फुटम् ॥२॥
भगवान्विपन्नं दीक्षितं ज्ञात्वा पार्थनीयो महागुरुः । स्नेहेन कृपया वाऽथ सह शिष्यैः कृतात्मभिः ॥ ३ ॥
For Private and Personal Use Only