________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २२-२३
पूजनं चायपुष्पाधैर्भोगैर्यदखिलं मुने ॥ ७६ ॥ बाह्योपचारैस्तद्विद्धि भोगसंज्ञं नु नारद । मध्वाज्याक्तेन दना वै पूजा च पशुनाऽपि वा ॥ ७७॥ तत्तृतीयं हि यागाङ्गं तुर्यमन्तेन पूजनम् । निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ ७८ ॥ संप्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् । वहिसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ ७९ ।। प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् । इत्येतत्कथितं सम्यक् यत्त्वया परिचोदितम् ॥ ८ ॥
प्रददात्यचिरायद्वै तनिष्ठानां परं पदम् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां वैष्णवाचारलक्षण नाम द्वाविंशः पटलः । अथ श्राद्धविधानं नाम त्रयोविंशः पटलः ।
नारदःविधानमादिश विभो निमित्तं श्राद्धकर्मणि। . दीक्षितैर्भगवद्भत्केः कथं कार्य क्रियापरैः ॥१॥
श्रीभगवान्[दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता] कर्मणा मनसा श्राद्धं यत्नात्कार्य सदैव हि । सऋणैरऋणैः सर्वैर्यावद्देहान्तिमं द्विज ॥२॥ विविक्तं धर्ममेतावत्सिद्धानामपि देहिनाम् ।
[सिद्धरपि लोकसंग्रहार्थ धर्मस्य कर्तव्यता] नाचरेद्योऽपि वै सिद्धो लौकिकं धर्ममग्रतः ॥३॥ उपप्लवमसिद्धास्तु कुर्वन्त्यविरतं महत् । उपप्लवाच धर्मस्य ग्लानिर्भवति नारद ॥४॥ विवेकज्ञैरतस्तस्माल्लोकाचारो यथास्थितः । आदेहपातायनेन रक्षणीयः प्रयत्नतः ॥५॥
[धर्मेषु श्राद्धस्य श्रेष्ठयम् ] आचाराणां हि सर्वेषां धर्माणां मुनिसत्तम । श्राद्धं मे रोचते यादृक् ताहक् न परमं तु वै ॥६॥
For Private and Personal Use Only