________________
Shri Mahavir Jain Aradhana Kendra
१. २२ ]
www.kobatirth.org
वैष्णवाचारलक्षणम्
श्रीगवान्~~
[ पञ्चकालभेदः तत्र कर्तव्यकर्मभेदश्च ] एकस्यैव हि कालस्य वासरीयस्य नारद || ६५ ॥ आप्रभातान्निशान्तं वै पञ्जधा परिकल्पना । पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः ॥ ६६ ॥
नारद:
एककालस्थितानां च कर्मणां लक्षणं वद । परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् || ६७ ॥ श्रीभगवान् -
ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विश् वासरे। जपध्यानार्चन स्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ ६८ ॥ अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् । ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ।। ६९ ।। भगवद्यागनिष्पत्तिकारणं प्रहरं परम् । तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ ७० ॥ ततोऽष्टाङ्गेन यागेन पूजयेत्परमेश्वरम् ।
'सार्धं तु ? प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥ ७१ ॥ श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता । 'अध्याय संज्ञं तं विद्धि कालांशं मुनिसत्तम ॥ ७२ ॥ दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत् । योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ ७३ ॥ पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः ।
नारदः-
श्रुतो मयाऽखिलः पूर्व भगवद्याग उत्तमः ॥ ७४ ॥ तस्याङ्गानि विभागेन श्रोतुमिच्छाम्यहं पुनः ।
श्रीभगवान्अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ ७५ ॥ तदाद्यमङ्गं यागस्य नान्नाऽभिमनं महत् 1
1 साधक: A 2 स्वाध्याय A.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२५३