________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
जयाख्यसंहिता
[प. २२ तज्जैस्सह प्रयत्नाद्वै ह्यागमं संस्करोति यः। अतन्द्रितः सदा विद्धि तं शास्त्रज्ञं हि वैष्णवम् ॥ ५३॥
[शास्त्रधारकलक्षणम् ] श्रद्धया यः समुच्चित्य यत्र कुत्रचिदागमम् । ब्रह्म ध्यायंस्तथा पश्चात्सन्धारयति यत्नतः ।। ५४ ॥ पूजयत्ययपुष्पाद्यैश्शास्त्रापीठं क्रमेण तु । ददाति वैष्णवानां च गोपयत्यकृतात्मनाम् ॥ ५५ ॥ अन्यदर्शनभत्कानां विद्धि तं शास्त्रधारकम् । इत्येतत्कथितं विप्र वैष्णवानां च लक्षणम् ॥५६॥
[ उक्तलक्षणलक्षितानां वैष्णवानां यागपूजार्हत्वविधानम् ] यजस्व पूजयस्वैतान् भक्त्या भावेन नारद । समुद्दिश्य निमित्तं यच्छ्राद्धं यजति वैष्णवे ॥ ५७ ॥ यत्यादिपञ्चकेवाऽथ ह्यनाते ब्राह्मणे द्विज । तस्मिनञ्जलिकारे वाऽऽरम्भिणेऽथ प्रवर्तिने ॥ ५८ ।। तदक्षयं पितॄणां तु विशेषान्मन्त्रसंस्कृतम् । पडेतेऽहांश्च विप्रेन्द्र पितृकर्मणि सर्वदा ॥ ५९॥ जपहोमवतादीनामासत्काः षडिमे त्वपि । दानकमणि दिव्ये च प्रायः क्षत्रादयः स्मृताः ॥ ६०॥ भवन्ति यादृशाश्चैव तापसा जपिनस्तु वा । दैवे पित्र्ये द्विजश्रेष्ठ योगी चार्हति सर्वदा ॥ ६१ ।। यद्वयः पूर्णमासीत्तु किं तु योगपरो यदि । तस्य ब्रह्ममयो देहो विशेषाद्वैष्णवस्य च ॥ १२॥ तस्मात्स' पूजनीयो हि यथाशक्ति च सर्वदा । दुर्लभा भगवद्यागा भाविनो भुवि मानवाः ॥६३ ॥ तदर्शनात्तदालापात्सुलभं शाश्वतं पदम् ।
नारदःएको हि श्रयते देव कालो लोके न चापरः॥६४॥ पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः ।
1
संपू A.
For Private and Personal Use Only