________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३ ]
श्राद्धविधानम्
२१५
[श्राद्धनिमित्तभूतकालादिनिरूपणम् ] तस्य कालं विधानं च यथा तदवधारय । सितासिते च द्वादश्यावमावास्या च पुर्णिमा ॥७॥ राहुसन्दर्शनं चैव सूर्यसंक्रमणं तथा । श्राद्धं तत्र पयत्नेन काम्यं कुर्याच्च भक्तितः ।। ८॥ अष्टकान्वष्टकाभ्यां च श्राद्धपक्षे विशेषतः। पितृऋक्षे त्वमावास्यात्रयोदश्योस्तथैव च ॥ ९ ॥ नवानप्राशने चैव सुतसंस्कारकर्मणि । गुरोवो वं(?) पद्धे तु तद्भातरि गृहागते ॥ १०॥ शुद्धेऽर्थे 'पात्रतो लब्धे तीर्थे वाऽऽयतने हरेः। प्राप्ते क्षेत्रेऽथ संसिद्धे प्रतिष्ठायां पवित्रके ।। ११ ।। वापीकूपतटाकानां वृक्षाणां परिमोक्षणे । गोदानादौ दृषत्यागे व्रतारम्भे तदन्ततः ॥ १२॥ शास्त्रश्रवणनिष्पत्तावारम्भे च तथैव हि । वत्सरे वत्सरे विष मि(पि!)त्रादीनां कुटुम्बिनाम् ॥१३॥ श्राद्धं कार्य दीक्षितेन लौकिकीषु तिथिष्वपि ।
[ श्राद्धविधानप्रकारः ] पूजयित्वा पुरा देवं तर्पयित्वा हुताशनम् ॥ १४ ॥ पागुक्तेन विधानेन ततस्त्वाहूय वैष्णवान् । प्रक्षालिताख़ीन्स्वाचान्तान् प्रोक्षितानखावारिणा ॥ १५ ॥ [ तत्र-आमन्त्रितानां वैष्णवानामासनपरिकल्पनविधानम् ] सम्मुरवान्मन्त्रनाथस्य उत्तराभिमुखानपि। आसनेषु विविक्तेषु परिच्छिन्नेषु नारद ॥ १६ ॥ गायत्र्या भस्मरेखासु शङ्कनास्त्रान्वितेन वा। हृदाश्त्रपरिजतानि आसनानामथोलतः ॥ १७ ।।
सतिलानि च दर्भाणि निक्षिप्याम्बुयुतानि च । [ गुरुवर्गे पितृवर्गे मातृवर्गे च तेषां स्थापनप्रकारविधानम् स्थापनीय
__ वैष्णवसङ्ख्याप्रदर्शनं च] गुरोर्या मुरुवर्गस्य मूलमन्त्रेण नारद ॥१८॥ 1 पदतो A.
For Private and Personal Use Only