________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
जयाख्यसंहिता
[प.२१
नमो नमःपदोपेतं पञ्चधाऽथ त्रिकं न्यसेत् । क्रमेण द्विजशार्दूल कूट(?)सूर्यामृताभिधाम् ॥ १८१ ॥ विसर्गेणाङ्कयेत्पूर्व व्योमेशेन पदं ततः। तृतीयमौर्वसंझेन चतुर्थ-छादनेन तु ॥ १८२ ॥ पञ्चमं योगपात्रा तु योज्यः षष्ठेन नारद । अविग्रहः सप्तमे तु देवदत्तं नियोजयेत् ॥ १८३॥ तारकं त्वष्टमे विष विष्टरं नवमे ततः । दशमे ऋतधामानमूर्जमेकादर्श मुने ॥ १८४ ॥ द्वादशेऽभ्युदयं विद्धि न्यसेद्विष्णुं त्रयोदशे। राम द्विसप्तमे विम विन्यसेत्तदनन्तरम् ॥ १८५॥ आनन्दं पञ्चदशमे बीजे तदनु नारद । प्रणवस्सनमस्कोऽन्ते तदन्ते प्रणवः पुनः ॥ १८६ ॥ भूयः प्रणवमादाय भगवत्पदमेव च । ममेति द्वथक्षरं शब्दं विवेकपदमेव च ॥ १८७ ॥ पकारं केवलं दयाहकारं गोपनाङ्कितम् । ताललक्ष्माणमन्ते तु अपमेयोज्झितं मुने ॥ १८८ ॥ समयोत्थानतः शब्दं दोषं ज्ञानाशेन वै । पदं सप्ताक्षरं दद्यात्कमलं केवलं ततः ॥ १८९ ॥ विश्वरूपसमारूढं दण्डधारं न्यसेत्ततः।। तदन्ते कमलं दद्यादण्डधारमथोद्धरेद ॥ १९० ॥ वृषकर्मा च तदधः अकराळस्ततो द्विज । अखण्डविक्रमी देयस्तदधस्थः प्रतर्दनः ॥ १९१॥ शश्वच्छब्दस्ततो विष चन्द्रांशुश्छन्दपृष्ठतः। आनन्देनाङ्कितः कार्यों व्योमेशेनाङ्कितेन तु ॥ १९२ ॥ रामा स्रग्धरं चापो मापादय पदं ततः। कालव्यश्राङ्कितं दद्यानरं रागाङ्कितं ततः ॥ १९३ ॥ अनलं वरुणं चैव केवलं योजयेत्क्रमात । पुण्डरीकोऽग्निरूपश्च वैकुण्ठस्तु तृतीयकः ॥ १९४ ॥ छन्दस्व्यश्राङ्कितो (तं?) योज्यश्च(ज्यंच ?)न्द्रांशुं प्रोद्धरेत्ततः । छन्दःपतिसमारूढमानन्देनाथ चाङ्कयेत् ॥१९५ ।।
For Private and Personal Use Only