________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
पवित्रविधानम् गकारं केवलं दद्याद्वैकुण्ठं व्योमराड्युतम् । पूजयेति वदेवीप्सां सूर्य तदनु चोद्धरेत् ।। १९६ ॥ सामदाम( फाठ? )कमस्यान्ते दीप्तिमन्तमनन्तरम् । उत्फुल्लनयनश्चान्ते चतुर्णा योजयेत्क्रमात् ॥१९७॥ त्र्यैलोक्यैश्वर्यदं मूर्ध्नि प्रज्ञाधारमथासने। ततो झपं समादाय ज्वालारूढं तु नारद ॥ १९८ ॥ व्योमेशेन समायुक्तं धर्माशुं मोद्धरेत्ततः।। तस्यासने तु लिङ्गात्मा योजनीयोऽवसानतः ॥१९९॥ अपमेयोज्झितः स्रग्वी आधेयश्चाथ लागली ।। आसने भगवानस्य वैराजस्तस्य पूर्वकम् ॥ २००॥ द्विधाऽनलं समुत्य न्यस्यस्ताभ्यामथ क्रमात् । लाङ्गली विश्वरूपश्च व्यापी बाबासु मस्तके ॥२०१॥ प्रथमस्यासने योज्यं नाम्ना वर्ण प्रसारणम् । दीर्घघोणं द्वितीयस्य योजयेत्तदनन्तरम् ॥२०२॥ अथानलं द्विजादाय तदधः सामफाठकम् ।। अशेषभुवनापाररूढं कृत्वाऽस्य मूनि ॥ २०३।। ऐश्वर्यसंवृतं व्योम न्यसेदेकं द्विधा मुने । ततोऽनलं समादाय सूर्य न्यस्येदधस्ततः ॥२०४॥ अस्य चापोऽनलं चोचे व्योमचैरावणस्थितम् । ततस्तु रेफमादाय अषोपरि गतं मुने ॥२०५ ।। तदधोपरि तेजस्वी तदधो बनलं पुनः।। लोकेशोपरिसंस्थं तु अंकारश्चास्य मूर्धनि । २०६॥ पदकारद्वितयं चान्ते केवलो लाङ्गली ततः । रामावितो दण्डधरः स्रग्वी तेनैव चाङ्कितः ॥२०७॥ महामन्त्रेति च पदं शब्देनेति पदं ततः। विनोऽयमिति वै देयं समयेति पदं ततः ।। २०८॥ दोषहृदन्त(वृन्दं न ? )दन्ते तु अविद्यानिचयं ततः। बधरीभूतमिति वै शीघ्रं कुरु कुरु द्विज ।। २०९ ॥
ततः प्रणवमादाय सूर्यो योज्यस्ततो मुने । 1 देवं LC.
-
-
For Private and Personal Use Only