________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
जयाख्यसंहिता
[प. २१ 'स(?)वद्वयश्चान्ते दमनो विक्रमीयुतः । नृसिमः सिद्धिदश्चान्तो यकारख्यश्रभूषितः ॥ १२५ ॥ हलायुधोऽप्यकारस्थो विसर्गेण विभूषितः । ततः सकारमादाय वरुणस्थस्ततोऽनलः ॥ १२६ ॥ "सकारश्च मकारश्च सुसूक्ष्मस्तदनन्तरम् ।
ओंयुक्तो विबुधावस्तु बकारो विग्रहान्वितः ॥ १२७ ।। गकारोऽथ यकारस्थ आकारेण विभूषितः। तृप्तिं च वरुणारूढमुद्धरेत्कालपावकम् ॥ १२८ ॥ सकारः केवलश्चाथ परा संवित्ततोऽनलः । गकारोऽथ सकारश्च पारूढश्चानलः स्मृतः ॥ १२९ ॥ एकारेणाङ्कितश्चैव शान्तोऽथ वरुणः स्थितः। रेफ च केवलं दद्यात्सर्वशक्तपदं ततः ॥ १३० ॥ सर्वाधारपदोपेतं सर्वान्तर्बहिरेव च । स्थितेवर्णद्वयं दद्यात्सर्ववर्णद्वयं ततः ॥ १३१ ॥ परां प्रकृतिमादाय रेफ च तदधो न्यसेत् । इष्टेनाप्ययेत्तच्च यकारं चोद्धरेत्ततः ॥ १३२ ॥ आकारेण समायुक्तमेकदंष्ट्रमथोद्धरेत् । 'गकारं तदधो दद्यादाकारं च ततो मुने ॥ १३३ ॥ इकारेणाङ्कितं दद्यान्नरं तदनु नारद ।। द्विधा मकारं तदनु पूरयेति पदं ततः ॥ १३४ ॥ सर्वाणि पदमादाय 'डकारस्तदनन्तरम् । उत्तमं तदधो न्यस्याद्विधा नारायणं ततः ॥ १३५ ॥ आकारणारयेत्पूर्वमिकारेण परं द्विज । द्विधा मकारस्तदनु प्रकाशय पदं द्विधा ॥ १३६ ॥ सर्वाणि करणानीति पदं कालं ततो द्विधा । स्वात्मलाभे पदं चाथ नियोजय पदं द्विधा ॥ १३७ ॥ भगवंध्यक्षरमिति त्र्यक्षरं भवति च । भूतात्मानमथादाय तदधस्थं गदाधरम् ॥ १३८॥
1न्द्रयं A. 2मकार CL. 3सतारY. 4 दकारं A. 5दकार A.
For Private and Personal Use Only