________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
पवित्रविधानम्
२३९
साधके च क्रियाहीने तस्मादुक्तो मया महान् । याग एष पवित्राख्य उक्तलक्षणलक्षितः ॥ ११२ ।।
[पवित्रकर्मविधानानन्तरं पालनीया विशेषनियमाः ] कृते पवित्रके विष भक्तैर्मन्त्रक्रियापरैः । कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः ॥ ११३ ॥ यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा । भूयस्तदादि विप्रेन्द्र प्रयत्नादिनपञ्चकम् ।। ११४ ॥ कुर्याद्रतपरं किञ्चिदानपूजनपूर्वकम् ।। समस्तदोषशमनं समस्त मुखवर्धनम् ॥ ११५ ॥ मधुमांसमसत्यं च मैथुनं मृगयान्वितम् । तैलाभ्यङ्गं च मत्स्यं च बहुशो बहुभोजनम् ॥ ११६ ॥ यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः । तथाऽस्य भवते सिदिरिह लोके परत्र च ॥ ११७ ॥ इत्येतत्साधकानां च क्रियासंपूरणं मया। कथितं मुनिशार्दूल पवित्रं पापनाशनम् ॥ ११८ ॥ मन्त्राराधनसक्तानामचिरात्सिद्धिदं महत् । मन्त्रतन्त्रविहीनानां भक्तानां भुवनत्रये ॥ ११९ ॥ पवित्रस्य फलं शश्वत्पददाति समापनात् ।
नारद :कोऽसौ मन्त्रो जगत्कर्त्तयों जप्तव्यः क्रियापरैः ॥ १२० ॥ पूजावसानकाले तु यथावत्कथयस्व मे ।
श्रीभगवान्[पवित्रकर्मावसाने जप्तव्यतया पूर्वमुक्तो महामन्त्रः ] ओकारत्रितयं पूर्व प्रथमं केवलस्ततः ॥ १२१ ॥ पवित्र ऋतधामाऽथ परा प्रकृतिरेव च । ताललक्ष्मा तदन्ते तु बुद्धिरानन्दचिह्निता ॥ १२२॥ आकारेणाङ्कितं दद्याद्रेफ च तदनन्तरम् । केवलोऽथ यकारश्च शास्ता तद्विजोत्तम ॥ १२३ ॥ त्वां प्रपन्नोऽस्मि तदनु रक्षरक्ष पदान्वितम् । ततो मकारमादाय व्योमेशानन्दभूषितम् ॥ १२४ ॥
For Private and Personal Use Only