________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
पवित्रविधानम्
गोपनेनाविन्तं मूनों रेफ वै योजयेत्ततः । वैराजोपरिसंस्थं च ओंकारेणाङ्कयेच्च तम् ॥ १३९ ।। व्योमेशात्यो हकारश्च शङ्खचानन्दभूषितः । आदाय चञ्चलं विम ईश्वरं तदधो न्यसेत् ॥ १४० ॥ आनन्देनाङ्कितं कुर्याज्जिते पाणिपदं ततः। चतुरर्ण तु संयोज्य मकारं च ततो न्यसेत् ॥ १४१ ॥ व्योमेशाकारसंभिन्नं सत्यं तदनु चोद्धरेत् । तदन्तेऽभयदं न्यस्य गकारं तदनन्तरम् ।। १४२ ॥ व्योमेशभित्रो वैकुण्ठो वाराहस्त्विनभूषितः। शाङ्गदरुणारूढो न्यस्यो व्योमेशचिह्नितः ॥१४३ ॥ संस्कारोऽथ(?)यकारश्च लिप्सोऽस्मि व्यक्षरं पदम् । सकारोऽथ मकारश्च यकारस्तदनन्तरम् ॥ १४४ ॥ ततो धरेशमादाय ओंकारेण विभूषितम् । पकारश्च वकारश्च लक्षणं केवलास्त्वमी ॥ १४५ ॥ विश्वभावकमादाय कमलोपरिसंस्थितम् । शिरसाऽविग्रहाख्येन वर्णेन परिभूषितम् ॥ १४६ ॥ नकारं केवलं चाथ पदं निर्मल मित्यथ । मापादय पदं दद्यात्सकलेति पदं द्विज ॥ १४७ ॥ उद्दामस्थं गकारं तु लकारं केवलं ततः। आदिदेवान्वितः पन्था रामोपेतश्च माधवः ॥ १४८॥ पकारश्च तकारश्च यकारोऽविग्रहान्वितः । द्विधा जहि पदं देयं कालं व्यश्रेन चाङ्कितम् ॥ १४९ ॥ चतुर्गतिसमारूढं वैराजमथ योजयेत् । आनन्दाख्येन चाक्रान्तं न्यसेद्रेफमतो द्विज ॥ १५० ॥ राजोपरिसंस्थं तु 'सोमेशाख्यं स्थितं पुनः । पदं तु मानसं तेदं (दोष!) दद्यात्पश्चाक्षरं द्विज ॥ १५१ ॥ वाचिकारुयक्षरं चातो दुरुक्तान् कायिकांस्ततः । षडक्षरं कुवृत्तीन्वै त्र्यक्षरं तदनु न्यसेत् ॥ १५२ ॥ 1 सोम शड्स A.
For Private and Personal Use Only