________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २१ संचळ दन्तकाष्ठं तु ताम्बूलं वा यथेच्छया । आचम्य न्यासपूर्वतु सकळीकृत्य विग्रहम् ॥ १८ ॥ स्थलस्थमुद्धरेन्मत्रं कलशे न्यस्य वाऽऽत्मनि । [ रात्रौ जागरणस्य मण्डलकर्मणः समापनस्य च विधान ] रात्री जागरणं कुर्यान्मण्डलं च समापयेत ॥ ४९ ॥
रात्रिक्षये ततः स्नायाद्विभवेनाच्युतं यजेत् । [ पवित्रारोपणप्रकारविधानम्-तत्र नित्यार्चनपूर्वक चतुस्स्थानार्चनम् ] नित्यकर्म पुरा कृत्वा कुंभस्थं तु यजेत्क्रमात् ॥ ५० ॥ मण्डलस्थं ततः पश्चादग्निस्थं तदनन्तरम् । स्नानपूर्वं तु विम्बस्थं प्रासादाभ्यन्तरे द्विज ॥ ५१ ॥
[प्रथमं कलशस्थस्य पवित्रारोपणप्रकारः ] पविश्य यागसदनं गत्वा कलशसन्निधिम् । पूजयित्वा समुद्घाट्य पात्र प्रातिसरीयकम् ॥ ५२॥ अवलोक्य समादाय तस्मिन्ध्यायेट्विजाखिलम् । संवत्सरं तु यत्कर्म आप्रभातान्निशान्तकम् ॥ ५३ ॥ ध्यानोत्थं निष्कळं सम्यगपवर्गपदं तु यत् । संस्मृत्य निष्कळं मन्त्रं शुद्धोच्चारक्रमेण तु ।। ५४ ॥ मनं सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च । एकीकृत्यात्मना सार्ध दद्याद्वै मत्रमनि ॥ ५५ ॥ समादाय परं सूत्रं तस्मिन्सकळनिष्कळम् । ज्ञानकर्मस्वरूपं तु कर्म ध्यायेच्च वत्सरम् ॥ ५६ ॥ स्मृत्वा चोभयरूपं तु मन्त्रं 'कलशपूजितम् । पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् ॥ ५७ ।। ततः प्रतिसरं विष तृतीयं च समाहरेत् । बाह्यं सांवत्सरं कमें सकलं चाखिलं स्मरेत् ॥ ५८ ॥ पूजयन्तं स्वमात्मानमाधाराच परावधिम् । लयभोगाधिकाराख्यक्रमेण सकलात्मना ।। ५९ ॥ सकलं मन्त्रनाथं तु लयभोगादिविग्रहम् । स्मृत्वा कृत्वा च सन्धानं दद्यात्मतिसरं ततः ॥६०॥
1सकल A.
For Private and Personal Use Only