________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
प. २१ ]
पवित्रविधानम् अध्यः पुष्पैस्तथा माल्यैः धूपान्तैश्च विलेपनैः। ' अन्तरान्तरयोगेन पूजां कुर्यात्रिधा तथा ॥६१ ॥ मूलमत्रस्य विपेन्द्र गायव्योपहृतात्मना । 'दत्वैवं कलशस्थस्य पुत्रा विष पवित्रकम् ॥ ६२ ॥
[मण्डलस्थस्य पवित्रारोपणम् ] अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा । पवित्रकत्रयं शुभं भोगस्थाने च नारद ॥ ६३ ॥ दद्यात्समस्तमत्राणां त्रीण्येकं वा यथेच्छया ।
[ अग्निस्थस्य ततो बिम्बस्थस्य च पवित्रारोपणम् ] पूजयित्वा ततोऽग्निस्थं विभुं बिम्बगतं ततः ॥ ६४॥ कलशोक्तप्रयोगेण भूषणैस्तु त्रिभिस्त्रिभिः ।
[अग्निस्थस्य समर्पणे विशेषनिरूपणम् ] अग्नौ निवेदयेद्विप भूषणं न तु होमयेत् ॥ ६५ ॥ यस्मात्सन्यासमूर्वे तु विहितं भूषणस्य च । नाहर्तुं युज्यते दग्धुं दोषमाहरणं विना ॥ ६६ ।। पवित्रकावधेरूचं साधकानां तु नारद ।
[ महामन्त्रजपविधानम् ] पश्चात्पद्मासनं वध्वा देवस्याभिमुखस्थितः ॥ ६७॥ सकृजपं महामन्त्रं सर्वकर्मप्रवर्धनम् । नाशनं सामयानां च दोषाणां स्मरणादपि ॥ ६८॥
[अथ विज्ञापनम् ] ततः संश्रावयेदेवं त्रिस्थानस्थं क्रमेण तु । कामतोऽकामतो वाऽपि न कृतं नियताचेनम् ।। ६९ ॥ केनचिद्विघ्नदोषेण मया यत्परमेश्वर । तेन मे मनसाऽतीव सन्तापो दहनात्मकः ॥ ७० ॥ यतः समयदोषेण बाधितोऽस्मि जनार्दन । त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया ॥ ७१ ॥ दोषविध्वंसकृच्छुद्धं पवित्र तत्कृतं मया। प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम ॥७२॥
1 गत्वै A.
For Private and Personal Use Only