________________
Shri Mahavir Jain Aradhana Kendra
प. २० ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठाविधानम्
[ प्रतिष्ठादिना चतुर्थादिने स्नपनादिविधानम् ] चतुर्थेऽहनि संप्राप्ते संस्नाप्य परमेश्वरम् || ३५८ ॥ मपूज्य पूर्वविधिना होमं कुर्याच्च शक्तितः । समग्रमन्त्रजालस्य दत्वा पूर्णाहुतिं ततः ।। ३५९ ।। [ अथ विष्वक्सेनपूजनम् ]
प्रागुक्तेन विधानेन प्रासादाभ्यन्तरे द्विज । ऐशान्यां चलपीठस्थं कुम्भे वा तोयपूरिते ।। ३६० ।। प्रपूज्य विष्वक्सेनं च पूजितव्याश्च मूर्तिपाः ।
[ शिष्टद्रव्यविनियोगप्रकार: ]
निर्वर्त्य सर्वसंभारं स्वगुरोर्विनिवेद्य च ।। ३६१ । स्वयं वा यः प्रतिष्ठानमाचार्यस्त्वाचरेद्विज । यत्राद्विभजनीयं तन्मूर्त्तिपादिष्वनुक्रमात् ।। ३६२ ।। [ अवभृथः ] सिद्धिमुक्त्योरभीप्सार्थ स्त्रायादवभृथेन च । इत्येतत्साधकस्योक्तं मन्त्राराधनकांक्षिणः ॥ ३६३ ॥ मन्त्रमूर्त्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ।
[ चित्रप्रतिष्ठायां विशेषः ] लेपभित्तिपटस्थानां स्नानाद्यं दर्पणे मुने ॥ ३६४ ॥ कुर्यान्निरवशेषं च पुष्पैः पूजां जलोज्झितैः ।
[ तत्र रत्नन्यासप्रतिषेधः ]
भित्तिगानां पटस्थानां विम्बानां स्थापने द्विज ।। ३६५ ॥ पीठब्रह्मशिलारत्नन्यासाख्यो न भवेद्विधिः ।
[ अन्यत्र धातुजादिषु तद्विधानम् ]
समानयोनिपीठानां धातुजानां तु नारद ॥ ३६६ ॥ चलानां लघुदेहानां बिम्बानां तु समाचरेत् । शैलमृद्दारुजानां तु एवमेवहि नान्यथा ॥ ३६७ ॥ निस्सारे सति वै पीठे अन्तस्सारे स्मरेद्धिया । [ अथ जीर्णोद्धारविधानम् तंत्र जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः ] पटे कुड्ये परिक्षण भने बिम्बे प्रमादतः ।। ३६८ ॥
For Private and Personal Use Only
२२७