________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
जयाख्यसंहिता
[प. २० जीवभूतेन वै तेन विभुना मन्त्रमूर्तिना ॥ ३४७ ॥ प्रतिष्ठितेन विमेन्द्र विद्धि सर्व प्रतिष्ठितम् ।
[प्रदक्षिणप्रणामौ ] आमूलाद्धजपर्यन्तं प्रासादे यः पुराकृतः ॥ ३४८ ॥ देवं प्रदक्षणीकृत्य अष्टाङ्गेन प्रणम्य च ।
[बलिदानम् ] ग्रहीत्वा चार्घ्यपात्रं तु यायादेवगृहाबहिः ॥ ३४९ ॥ प्रभूतानां च भूतानां बलिदानं समापयेत् । गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः॥ ३५० ॥ बलि मन्त्रपवित्राश्च(त्रं च ?) तेषामनुचराश्च ये । सोदकेन तु पात्रेण दत्वा देवं प्रणम्य च ॥ ३५१ ॥
न्यूनाधिकशान्त्यर्थपूर्णाहुतिः ] बजेद्यागगृहं पश्चात्पूर्णहोम समाचरेत् । ऊनाधिकनिमित्तं च दद्यात्पूर्णाहुतिं ततः ॥ ३५२ ॥
[अथ फलश्रुतिः] आदेवालयभूभागाद्धजान्ताचापि मण्डपात् । सर्वोपकरणोपेतात्परमाणुषु नारद ॥ ३५३ ॥ यावती जायते सङ्ख्या तावत्कर्ता समावसेत् । भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ॥ ३५४ ॥
[प्रतिष्ठाकर्मणि वृतानां पूजनम् ] ततः संपूज्य विधिवक्रमात्सर्वान्पुरोदितान् । गन्धायपुष्पधूपेन माल्यैश्चैवानुलेपनैः ॥ ३५५ ॥ भोजनैर्विविधैश्शक्त्या दक्षिणाभिर्महामुने ।
[अथ रात्रौ जागरणम् ] रात्री जागरणं कुर्यावृत्तगीतैर्महोत्सवम् ॥ ३५६ ॥
[प्रतिष्ठादिनाद्यावदिनचतुष्टयं होमस्य कर्तव्यता] अव्युच्छिन्नोदितं होमं कुर्यादिनचतुष्टयम् । क्षणवारानुसारेण(?)बहिः कुण्डेषु चान्तरे ॥ ३५७ ॥ यथा दिनचतुष्कं तु धूमच्छेदो न तत्र वै ।
For Private and Personal Use Only