________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १० ] प्रतिष्ठाविधानम्
२२१ [बिम्बस्य मन्त्रमेयवृक्षत्वेन भावनं ] विम्ब मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना । तद्विज्ञानमयीं शाखा प्रवरायाति चो(मायतो)वताम् ॥ ३३७ ॥ अनन्तगगनाक्रान्तां भावयेत्साधको द्विज । प्रभूतेन तु वै तस्मादनौपम्यामृतेन तु ॥ ३३८ ॥ मन्त्रविम्बमयं वृक्षं सरसं भावयेत्सदा । यथा भौमेन तोयेन गगनोत्थेन नारद ॥ ३३९ ॥
मन्दारपुष्पविटपी तद्वदेव हि नान्यथा । [बिंबपीठादिषु न्यस्तस्य मन्त्रचक्रस्य लयभोगादिविधानेन पूजनविधानम् ]
ततः संपूजयेत्तत्र लययागेन चाखिलम् ।। ३४० ॥ पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुन: पीठमूलं समाश्रित्य लोकेशान्सायुधान्यजेत् ॥ ३४१ ॥ पीठीयमन्त्रसङ्घ च विलोमेनाथ पूजयेत् । आधारशक्तिपर्यन्तं सृष्टिन्यासेन नारद ॥ ३४२ ॥
[ प्रतिष्ठादिवसे कर्तव्यं प्रतिष्ठानन्तरं स्नपनम् ] पूजयित्वा ततो देवं स्नापयेत्
[चतुःस्थानार्चनम् ]
___ मण्डले पुनः। प्रपूज्य पूर्वविधिना मण्डलानुक्रमेण तु ॥ ३४३ ॥ होमान्तं निखिलं कृत्वा दद्यात्पूर्णाहुतिं ततः ।
[सुप्रतिष्ठितत्वाभिशंसनम् ] स्वामीति च स्वनामान्तं रूढिशब्दं प्रकल्प्य च ॥ ३४४ ॥ ताल(र ?)शब्दयुतं सर्वैरेवमस्त्विति चोचरन् । पुष्पाक्षताञ्जलिं पूर्ण क्षिपमाणाश्च नारद ।। ३४५ ॥ सर्वे वदेयुस्तत्रस्था भगवान्मुमतिष्ठितः ।
[स्तुतिजयोद्घोषः] ततः सर्वैस्स भगवान्स्तोतव्यो जगतः पतिः ॥ ३४६ ॥ जितन्तेनोचया वाचा ततो जयजयेति च ।
For Private and Personal Use Only