________________
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kailassag
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
जयाख्यसंहिता
[प. २० मन्त्रात्मन् रूपमात्मीयमानेयमुपसंहर ।। ३२४ ॥ समाश्रयस्व सौम्यत्वं स्थित्यर्थ परमेश्वर । नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर ॥ ३२५ ॥ मदनुग्रहहेत्वर्थ पीठभूमि समाक्रम ।
[देवस्य प्रासादे प्रवेशनम् ] उहृत्य मूर्तिपैः सम्यक् पृष्ठे वा साधकोऽग्रतः ॥ ३२६ ॥ यायात्लक्षिपमाणस्तु सार्थेि(?)रत्नकं बहु । प्रदक्षिणं ततः कुर्यात्मासादस्य च नारद ॥ ३२७ ॥ शनैः प्रवेशयेद्देवं यथोज़ तु न संस्पृशेत् । पार्थद्वयं तु द्वारीयं
[अथ पीठे देवस्य स्थापनम् ]
पीठमध्येऽथ विन्यसेत् ॥ ३२८ ॥ हृदा संपुटयोगेन मूलमन्त्रेण नारद । तत्र तं चाग्रतः स्थाप्य तत्पार्चे पृष्ठतोऽपि च ॥३२९ ॥ वज्रलेपेन गायत्र्या पीठस्यैकात्म्यतां नयेत् । तारकं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः ॥ ३३० ॥
[विज्ञापनम् ] आराधितोऽसि भगवन्साधकानां हिताय च । त्वयाऽप्यनुग्रहार्थे च वस्तव्यमिह सर्वदा ॥ ३३१ ॥ . त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिने दूरतः । भवेदै साधकेन्द्राणामित्युक्तं च पुरा त्वया ॥ ३३२ ।। तस्माध्रुवं सदा तुष्टस्सानुकम्पापरो महान् । सदा ह्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् ॥ ३३३ ॥ एवमुक्त्वा ततो दद्यादयं शिरसि पादयोः ।
[अथ तत्त्वसंस्थापनम् ] तत्त्वसंस्थापनं कुर्यात्मकृतिस्थापनादनु ॥ ३३४ ॥ विज्ञानानन्दकल्लोलज्ञेयभासा तथा रवैः। अनेकालादननितैराचारादिभिरा(राचाधाराच्छिरो?)वधि॥३३५ पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम् । एवं सर्वसमुत्पत्तिस्थाने संकल्पसिद्धिदम् ॥ ३३६ ॥
For Private and Personal Use Only