________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०
२२३
प्रतिष्ठाविधानम् ऐशान्ये न्यस्य वैडूर्य मध्यतः स्फटिकं न्यसेत् ॥ ३१० ॥ पागादौ रजतं तानं त्रपु वंगमतीरुतम् । लोहं तथायसं कांस्यं मध्ये हेम निवेश्य च ॥ ३११ ॥ तालं मनश्शिलां चापि रजनी कुष्ठमेव च । स्रोतोञ्जनं तु दरदं सौराष्ट्र हेमगैरिकम् ।। ३१२ ॥ मध्ये तु राजपाषाणं पारदं चाथ सर्वतः। गोधूमांश्च यवान्वन्यान्मुद्गमाषांस्तथैव च ॥ ३१३ ।। चणकान्मुनिशार्दूल कुलत्थं च मसूरकम् । क्रमादष्टसु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् ।। ३१४ ॥ हीबेरं रननीं मांसी सहदेवीं वचां ततः। विष्णुक्रान्तां वलां मोटां श्यामाकं शङ्खपुष्पकम् ।। ३१५ ॥ पागादौ मध्यपर्यन्तं विन्यसेन्मूलसन्ततिम् । अभावात्सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् ॥ ३१६ ॥ तदभावात्तु तारं तु न्यसेन्मुक्ताफलानि च । घृतेन पयसा वाथ प्रापितेन पुरैव तु ॥ ३१७ ॥ प्रदघाल्लेपनं विम सर्वगर्तेषु चैव हि। अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम् ॥ ३१८ ॥
[ब्रह्मशिलोपरि पीठन्यासविधानम् ] ततः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत् । सन्धाय पूर्ववत्तच्च शिलया सह नारद ॥ ३१९ ॥ पीठश्वश्रेऽथ विन्यस्य सौवर्ण गरुडं मम(मुने) । क्षीरं दधि घृतं लानं मधुपुष्पफलानि च ।। ३२० ॥ सर्वगन्धानि विमेन्द्र सौषधियुतानि च । भावयेत्पूर्ववत्पीठे धमोचैरखिलैयुतम् ॥ ३२१ ॥ चिदासनमयीं व्याप्ति पुनस्तत्रोपरि न्यसेत् । हृदाऽथ विष्णुगायल्या एकैकमभिमन्य च ॥ ३२२ ॥ विन्यस्य कुर्याद्धवनं यस्मिन्यस्मिस्तु कर्मणि । पीठन्यासविधिं यावत्ततः पूर्णाहुतिं जुहेत् ॥ ३२३ ॥
[अथ प्रबोधनम् ] प्राप्ते लग्मोदये विष शयनस्थं प्रबोधयेत् ।
For Private and Personal Use Only