________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१
[प.२०
जयाख्यसंहिता कृत्वा नवपदां पूर्व पद्मं तस्यां पदे पदे । बिलिख्य रेखया सम्यक् खनेत्सर्वेषु कर्णिकाम् ॥ २९७ ।। सप्तधा तु ततः कुर्यात्मासादं सुसमैः पदैः। द्वारात्पश्चिमभित्यन्तमेकद्वारेण नारद ॥ २९८ ॥ द्वारदेशात्समारभ्य त्यक्त्वा भागचतुष्टयम् । द्वाभ्यां पदाभ्यां मध्ये तु न्यसेब्रह्मशिलां मुने ॥ २९९ ॥ द्वारान्मध्यं न सन्त्याज्यं देवस्थापनकर्मणि । चतुरे तु भवने मध्येऽथ विनिवेश्य च ॥ ३०० ॥ त्रिधा कृते चतुर्दिक्षु तत्र ब्रह्मशिलां दृढाम् । ब्रह्मशीलाक्षेपादौ सति गर्भ लभेर्चनम्( ? ) ३०१ ॥ ततो ब्रह्मशिलामानं बाहुव्यायामयोः खनेत् । तत्पूर्व सूत्रमार्गेण सञ्चाल्योत्तरदिङ्नयेत् ।। ३०२ ॥ श्वनं तत्रापि मध्ये तु शुभं कुर्यात्षडङ्गलम् । तस्मिंस्तु रत्नसंपूर्ण हेमजं वाऽथ ताम्रजम् ॥ ३०३ ॥ चतुरङ्गालमात्रं तु कलशं कम्बुरूपिणम् । हृन्मत्रेण तु सम्मन्व्य गायत्र्या च निवेश्य च ॥ ३०४॥ सपिधानं तु तत्कृत्वा सुधालेपं तथोपरि । दत्वा ब्रह्मशिलां न्यस्येत्याङ्मन्त्रपरिभाविताम् ॥ ३०४॥ व्यापकत्वं समालम्य स्वयमेव तदा गुरुः। तां शिलां व्यापिका ध्यायेदाधाराधेयविग्रहाम् ॥ ३०५ ॥ तत्र सर्वोर्ध्वगं न्यासं मूलमत्रेण भावयेत् । एवं तत्सन्निधिं कृत्वा पश्चात्तत्रोपरि द्विज ॥ ३०६ ॥
[रत्नादिन्यासः] न्यासं रत्नादिकं कुर्याद्यथा तदवधारय । हैमानि तथाऽनन्तं राजतं हेमजां धराम् ॥ ३०७ ॥ अष्टलोहमयं पनं मध्ये ब्रह्मशिलोपरि । पाच्यादौ पद्मगर्भेषु क्रमादीशानगोचरम् ॥ ३०८ ॥ वजं च सूर्यकान्तं च इन्द्रनीलं तथैव च । महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् ॥ ३०९ ॥ पुष्यरागमतवैव पनरागमतः परम् ।
For Private and Personal Use Only