________________
Shri Mahavir Jain Aradhana Kendra
प. २०
]
www.kobatirth.org
प्रतिष्ठाविधानम्
संहारस्थितियोगेन यथा तदवधारय ।। २८५ ॥ बिम्बात्मनो विभोः स्पृष्ट्वा घृतेन चरणद्रयम् । तद्धृतं होमयेद्विम शतसंख्याष्टसंयुतम् ॥ २८६ ॥ अन्ते निक्षिप्य पादाभ्यां दर्भकूर्चेन चोपरि । तथैव दध्ना होमं च स्पृष्ट्वा नाभिं समाचरेत् ॥ २८७ ॥ क्षीरहोमं ततः कुर्याद्देशे स्पर्शने सति । अथोत्तमाङ्ग संस्पृश्य होमयेत्केवलं मधु ॥ २८८ ॥ एकीकृत्याथ वै सर्व समभागेन नारद । सर्वगात्राणि संस्पृश्य होमयेत्तदनन्तरम् ॥ २८९ ॥ अनिरुद्धादिसत्यान्तैर्मन्त्रैः पादादि होमयेत् । दत्वा घृतेन वै पश्चात्पूर्णा मूलेन नारद ॥ २९० ॥ [ शान्तिहोमान्ते मध्वादिचतुर्दव्यैर्भोजनविधानं दक्षिणादानं च ] भोजयेन्मूर्त्तिमन्त्रेण मध्वाज्यघृतपायसैः । दक्षिणां च यथाशक्ति दद्यामादिकं ततः ।। २९१ ॥ [ अथ लग्नकालप्रतीक्षायां कालापनोदनक्रमः ] प्रतीक्षेलनकालं तु यावन्नायाति स द्विज । तावद्विनोदैर्होमैच हासैः पाठैश्च संक्षिपेत् ॥ २९२ ॥ [ अध प्रतिष्ठासमये सन्निहिते प्रथमं कर्तव्यः प्रार्थनाप्रकारः ] प्राप्ते लग्नोदये विप्र सन्निरोध्य जगत्प्रभुम् । क्षणं क्षमस्व भगवन्सर्वज्ञ करुणास्पद || २९३ ॥ निवेशयामि ते यावत्प्रासादे ब्रह्मपीठिकाम् ।
[ शयनस्थस्य भगवतो निद्रायमाणत्वेन स्मरणम् ] स्मरेन्निद्रायमाणं तु शयनस्थं जगद्गुरुम् || २९४ ॥ [ प्रासादप्रवेशविघ्नप्रशमनादिविधानम् ] ततो मूर्तिधरैः सार्धं प्रासादं संवजेगुरुः । हन्याच्चक्रेण तत्रस्थान विनान्सात्रेण नारद ॥ २९५ ॥ प्रक्षाल्य च तमस्त्रेण स्मरेद्रमशिलां ततः ।
[ ब्रह्मशिला स्थापननिधानम् ]
कपिलन्यूनां
Acharya Shri Kailassagarsuri Gyanmandir
दृढां द्विज ।। २९६ ॥
For Private and Personal Use Only
२२१