________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
जयाक्ष्यसहिता
[प.२० नार्चन विहितं विन न सुशोभनमर्चनम् । तस्मात्कृत्वार्चनं होमविशेषेण महामते ॥ ३६९ ॥ दानपूजा यतीनां च भगवत्तत्ववेदिनाम् । अवतारक्रमेणैव निखिलं हृदि चारभेत् ।। ३७० ॥ आधारनिचयं न्यस्तं पूर्वोक्तविधिना मुने । [धातुद्रव्योद्भवादन्यस्य भग्नबिम्बस्य जलाशये प्रक्षेपविधानम् ] विष्वक्सेनस्य मन्त्रेण न्यासपूजामिव क्षिपेत् ॥ ३७१ ॥ जलाशये ह्यगाधे च धातुद्रव्योद्भवं विना । यस्मात्त............बिम्बकर्मणि संस्कृतिम् ॥ ३७२ ॥ इत्येतदेकदेहानां विम्बानां परिकीर्तितम् ।।
[पीठेन सहसन्धिगमितेषु बिंबेषु विशेषाः] अन्योन्यैकीकृतानां तु वज्रबन्धेन मे श्रुणु ॥ ३७३ ॥
[ता किञ्चित्पीठमङ्गे निर्दोषत्वम् ] किश्चित्पीठविभङ्गे तु न दोष उपजायते ।
[ईषदङ्गक्षते सन्धानम् ] ईषदङ्गसते कुर्यादिम्बस्य स्वर्णघर्षणम् ॥ ३७४ ॥
[पठिस्य भङ्गाधिक्ये तत्त्यागः ] बृहद्भङ्गे समुत्थाप्य पीठाद्विम्बं तु तं क्षिपेत् । कृत्वा चाभिनवं पीठं तत्र संस्थापयेत्पुनः ॥ ३७५ ॥
[बिंबस्य भङ्गाधिक्ये तत्त्यागः] भने बिम्बे शुभे पीठे सति बिम्बं नवं स्मृतम् ।
[ अविज्ञाते बीजन्यासे प्रणवेन विधानम् ] बीजन्यासे ह्यविज्ञाते ब्रह्मतत्त्वं हि तद्गतम् ।। ३७६ ॥ तत्त्ववित्मोरेयत्नात्प्रणवेनात्र कर्मणि । सर्वज्ञानानि तत्स्थाने मन्त्राश्च प्रणवे स्थिताः ॥ ३७७ ॥ वाच्यवाचकसंबन्धस्ताभ्यां नान्यस्य वै यतः ।। अनेन विधिना विष कृतमायतनस्य यत् ॥ ३७८ ॥ तिष्ठत्यविषयं कालं नान्तर्धानं व्रजेत्पुनः ।
For Private and Personal Use Only