________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
२१७
सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम् । पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने ।। २३६ ॥ हृत्पद्यकर्णिकासंस्थः प्रयत्नपदवीषु च विज्ञानकरणोत्थासु यश्चाभिव्यक्तिमेति च ॥ २३७ ॥ वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते । अतिस्थूलपरत्वेन स च वाग्विषये पुनः ॥ २३८ ॥ दृश्यादृश्येपु भावेषु अभिव्यक्ति प्रयाति च । ततः स्थूलतरः शब्दो व्यवहारेऽखिलः स्थितः ।। २३९ ॥ तस्माच्छन्दमयो देह इति चेतसि वै पुरा । निष्कम्पं साधकैः कृत्वा विम्बं भाव्य तदात्मकम् ॥ २४ ॥ शब्दसंहारयोगेन स्वपिण्डं बिम्बसंयुतम् । निष्कम्पबोधशब्दात्मा यो गुरुः समपश्यति ॥ २४१ ॥ पूर्वोक्तकमयागेन शब्दब्रह्मात्मना 'तु तम् । पश्यत्परिणतं विम क्रमाद्विम्बात्मना तु वें ॥ २४२ ॥ तेन संस्थापितं बिम्ब भुक्तिमुक्तिफलप्रदम् । एवं शब्दानुसन्धानं कृत्वा बिम्बस्य नारद ॥ २४३ ॥
[अथ मन्त्रसन्धानम् ] ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः । अशब्दभेदं शब्दात्म नित्योदितमनाहतम् ॥ २४४ ॥ स्वहृत्पद्मस्थितं मन्त्रमुदितं नादमूत्रवत् । निस्मृतं मध्यमार्गेण बिम्बान्तः संविशन् स्मरेत् ॥ २४५ ॥ स्फुरत्तारकरूपं च मन्त्रैव्याप्तं तथाऽखिलैः । मन्त्रात्मानं जगन्नाथं बिम्बं तत्पद्ममध्यगम् ॥ २४६ ॥ संस्मरेत्सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः । परः सएव बोद्धव्यः सुसूक्ष्मः स च निष्कलः ॥ २४७ ॥ सकलं निष्कलं चैव बोद्धव्यमुभयात्मकम् ।
[भगवतो निद्रानुसन्धानप्रकारः] विज्ञानरजनीमध्ये ज्ञेयं निद्रारसान्वितम् ॥ २४८ ॥
I कृतम् Y
२८
For Private and Personal Use Only