SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. २० तं योगमधुना वच्मि एकाग्रमवधारय । हृत्पुण्डरीकमध्यस्थः सापको वृत्तिवर्जितः ॥ २२२ ॥ स्वमन्त्रोच्चारयोगेन माग्वत्पदमनामयम् । यायाधं प्रवाहेण तावद्भूयः मवर्तते ॥ २२३ ॥ अनिच्छन्नव्यथोऽक्षुब्धः स्वेच्छया क्षोभमेति च । यथाऽऽसन्नतरो दीपो हकम्पः कम्पमेति च ।। २२४ ॥ कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते । विज्ञानशक्तिमालम्ब्य एवं भूयो हृदम्बुजम् ॥ २२५ ॥ स्वकीयं माययाऽऽचार्यः पूर्ववत्संविशेत्ततः। देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ॥ २२६ ॥ भावयित्वाऽथ विज्ञानं बोधशक्त्या ततो व्रजेत् । तवादशान्तमागत्य ज्ञेयाख्यं नच नान्तरम् ॥ २२७ ॥ तत्पदात्पूर्वयुक्त्याऽथ दैवं हृदयमाश्रयेत् । ततो वै देवहृदयात्मविश्य हृदयं स्वकम् ॥ २२८ ॥ सह मार्गेण हृदयादेत्य स्वं नेत्रगोलकम् । एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ॥ २२९ ॥ देवालोकेन चात्मानमनुसिद्धिं च संस्मरेत् । आत्मालोकेन देवेशं भिनं सर्वत्र भावयेत् ।। २३० ॥ एतदीश्वरसन्धानं भिन्नमेकान्तलक्षणम् । सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ॥ २३१ ॥ [शब्दानुसन्धानम् ] अथशब्दानुसन्धानमनेकाद्भुतदर्शनम् । वक्ष्यामि चैव मन्त्रात्मा बिम्बेनैकाङ्गतां व्रजेत् ॥ २३२ ॥ निष्कम्पपोधसामान्यरूपो भूत्वा पुनःस्वयम् । ये शब्दजनिता भावाः सूक्ष्मैः(क्ष्माः ?)सूक्ष्मतराखिलाः ॥२३॥ 'सामान्यावोषशब्देन तान्पश्येदेकतां गतान् । सङ्कल्पपूर्वपूर्वोत्थशब्दमात्रेण वर्जितान् ।। २३४ ॥ सचाभिमुखमायाति संकल्पादुत्थितस्य च । शब्दरूपपदार्थस्य शब्दः स परमो द्विज ॥ २३५ ॥ I ममिच्छन्नो C. L. 2 सामान्य A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy