SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २०] प्रतिष्ठाविधानम् २१५ [अथ ध्यानाधिवासनम् ] अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ॥२०७ ।। ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा । मनोहर्चागतो विम स्यात्पटस्थोऽथवा पुनः ॥ २०८ ।। न चोपसंहतो यावद्दुरुणा तत्त्ववेदिना । पाक्सर्वमुपसंहृत्य संहारक्रमयोगतः ॥ २०९ ॥ स्वरूपे(s)विकृते शुद्ध गुरुरास्ते च नारद । स्वहृद्रश्मिमये पढ़े स्थितिं कृत्वा पुरात्मनः ॥ २१० ॥ एवमेवाविनाशां च निरस्तावयवामथ । बोधिविज्ञानदेहं च बिम्बं सम्भाव्य वै तथा ॥ २११ ॥ द्वौ सुषुम्नात्मको मार्गों प्रज्वलद्भास्वराकृती। हृत्पद्मगोलकापूर्वमेकैकं तौ व्यवस्थितौ ॥ २१२ ॥ मणिप्रभेवचोद्धद्धौ (ोधो?) व्यापकत्वेन संस्थितौ । यथाऽत्मनि तथा देवे यथा देवे तथाऽत्मान ॥ २१३ ॥ विभाव्य च ततो यायाद्दक्षिणेन पथा मुने । स्वदेहाददयं दे(दै?)वं वाममार्गेण संविशेत ॥ २१४ ॥ यथात्मात्महृदये ह्यनुभूतो बन्पमः । तदा तङ्घदयान्तस्थं स्मरेद्विज्ञानगोळकम् ॥ २१५ ॥ दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत् । गमागमैकनिष्ठं तु शक्तौ ब्रह्मण्ययात्मनि ॥ २१६ ॥ देवदेहस्थितेनैव विज्ञानेन सहैकता। निष्पाद्या यावदस्पन्दकालमानं स्वदेहगम् ॥ २१७॥ पदं यदात्मना विम केवलेनानुभूयते । । स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ॥ २१८॥ कृत्वाऽऽत्मनि तथा देवे निष्क्रामेदथ साधकः । देवदक्षिणमार्गेण विशेदामन चात्मनः ॥ २१९ ॥ हृदयं भासुराकारं जन्मा(ज्ञाना?)मृतपरिप्लुतम् । योगोऽयं मुनिशाल बिम्बस्य द्रव्यजस्य च (?) ॥ २२० ।। आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकम्(कः?)। [ईश्वरसन्धानम् ] येन सर्वेशता विप्र बिम्बस्यास्य प्रजायते ॥ २२१ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy